________________
...४३...
सड-जीयकप्पो ‘णेगविहा इड्ढीओ पूयं परवाइणं च दट्टणं । जस्स न मुज्झइ दिट्ठी अमूढदिट्टि तयं बिंति' ४।
(श्रावकधर्मविधि प्रकरणम् ५८-६०) उपबृंहा प्रशंसा । सा ज्ञानदर्शनतपःसंयमवैयावृत्त्याद्युद्यतानां समानधार्मिकाणां साध्वादीनां तत्तद्गुणप्रशंसनेन तदुत्साहवृद्धिहेतुः प्रशस्ता । यदुक्तम् - 'खमणे वेयावच्चे विणए सज्झायमाइसु अ जुत्तं । जो तं पसंसए एस होइ उववूहणाविणओ' ।।
__ (श्रावकधर्मविधिः ६१) मिथ्यादृशां शाक्यचरकादीनां त्वप्रशस्ता ५ । स्थिरीकरणं ज्ञानदर्शनसंयमतपोवैयावृत्त्यादिषु सीदतां समानधार्मिकसाध्वादीनां यथा.पष्टम्भदानेन स्थैर्यहतुः प्रशस्तम् । यदुक्तम् - 'एएसु च्चिअ खमणाइएसु सीयंत चोयणा जा उ । बहुदोसे माणुस्से मा सीय थिरीकरणमेयं'' ।।
(श्रावकधर्मविधिः ६२) 'खमणाइएसु' त्ति । आदिशब्दाद्वैयावृत्त्यविनयस्वाध्यायादिषु । असंयमविषये पुनस्तदप्रशस्तम् ६। वात्सल्यं नाम आचार्य-ग्लान-प्राघुर्णक-तपस्वि-सेहा-ऽसह-बाल-वृद्धादीनामाहारोपध्यादिना समाधिसम्पादनं प्रशस्तम् । उक्तं च - 'साहम्मिवच्छल्लं आहाराइसु होइ सबत्थ । आएस-गुरु-गिलाणे तवस्सि-बालाइसु विसेसो''।।
__ (श्रावकधर्मविधिः ६३) गृहि-पार्श्वस्थाद्युपष्टम्भरूपं तु तदप्रशस्तम् ७। प्रभावना नाम प्रभाव्यते-विशेषतः प्रकाश्यते इति प्रभावना 'णिवेत्त्यासश्रत्थे । (सिद्धहेम० ५।३।१११) त्यादिना भावे अनप्रत्ययः । सा चार्थात् प्रवचनस्य सा प्रशस्ता । तत्र यद्यपि प्रवचनं शाश्वतत्वात्तीर्थकरभाषितत्वाद्वा सुरासुरनमस्कृतत्वात् स्वयमेव दीप्यते तथापि दर्शनशुद्धिमात्मनोऽभीप्सुर्यो येन गुणेनाधिकः स तेन तत्प्रवचनं प्रभावयति यथाभगवदार्यवज्रस्वामिप्रभृतिकः । उक्तं च'काम सभावसिद्धं तु पवयणं दिप्पए सयं चेव । तहवि य जो जेणहिओ सो तेण पभावए तं तु ।।
(श्रावकधर्मविधिः ६४) ते प्रवचनप्रभावका अतिशय्यादयः । उक्तं च - 'अइसेसि-इडि-धम्मकहि-वाइ-आयरिअ-खवग-नेमित्ती । विज्जा रायगणसंमया य तित्थं पभाविति'' ।।
(नि०भा० ३३, श्रावकधर्मविधिः ६७) अस्या अक्षरगमनिका-अतिशयी अवधिमनःपर्यायज्ञानयुक्तोऽतिशाय्यध्ययनो वा १ । ऋद्धिग्रहाद् राजाऽमात्यादिः ऋद्धिमान् दीक्षाग्राहकः आमर्पोषध्यादिऋद्धिप्राप्तो वा २। धर्मकथी आक्षेपणीविक्षेपणीनिर्वेदनीसवेदनीकथाभिर्यो धर्ममाख्याति ३। वादी वादलब्धिसम्पन्नः ४। आचार्यः स्वपरसिद्धान्तप्ररूपकः ५। क्षपकः तपस्वी ६। नैमित्तिकः अष्टाङ्गनिमित्तवेत्ता ७। विद्याग्रहणाद्विद्यासिद्धः