________________
सड्ड- जीयकप्पो
| ...४२...] प्रत्यनीकतायां चादिशब्दादुपघातकरणादिषु चेति । इदं च मध्यमापराधानाश्रित्य ज्ञेयम् । जघन्योत्कृष्टापराधेषु पुनर्लघुचतुर्लघुके भवत इति गाथार्थः ।।५६।। अथ इह दर्शनाचारातिचारानुद्दिश्य प्रायश्चित्तमाह
संकाइ मूढदिट्ठी पासत्थाईकुदिट्ठिवच्छल्ले । संथव पसंस मिच्छप्पहावणा संजमथिरत्ते ।।५७।। तह संघाणुववूहाइसु देसे चउलहु-गुरुग सब्वे ।
गुरुग अ ममत्ताइसु लहु गुरु-चउलहु तिविहमिच्छे ।।५८ ।। व्याख्या-दर्शनाचारातिचारोऽष्टधा । तद्यथा-शङ्का काङ्क्षा विचिकित्सा मूढदृष्टिरुपबृंहणा स्थिरीकरणं वात्सल्यं प्रभावना चेति । तत्र संशयकरणं शङ्का । सा द्विधा-देशतः सर्वतश्च । तत्र देशतस्तुल्येऽपि जीवत्वे कथमेके भव्या अपरे त्वभव्या ? इत्यादि । सर्वतस्तु प्राकृतभाषानिबद्धमिदं श्रुतं न ज्ञायते किं सर्वज्ञेन प्रणीतमाहोश्वित् कुशलमतिना केनापि परिकल्पितमिति । न पुनरेतद्विचारयति यथा-भावा हेतुग्राह्या अहेतुग्राह्याश्च । तत्र हेतुग्राह्या जीवास्तित्वादयः अहेतुग्राह्या अस्मदाद्यपेक्षया भव्यत्वादयः, प्रकृष्टज्ञानगोचरत्वात्तद्धेतूनामिति । प्राकृतनिबन्धोऽपि बालादिसाधारणत्वात्। उक्तं च - 'बालस्त्रीमन्दमूर्खाणां नृणां चारित्रकाक्षिणाम् । अनुग्रहार्थं सर्वज्ञैः सिद्धान्तः प्राकृतः कृतः।
(गाथासहस्री ८०५) इतश्च न परिकल्पितो, दृष्टेष्टाविरुद्धत्वात् १ । अन्यान्यदर्शनग्रहणमाकाङ्क्षा । साऽपि देशतः एकं किञ्चित् कुतीर्थिकमतमाकाङ्क्षति । यथा-अस्मिन्नपि खल्वहिंसैव धर्मो, मोक्षश्च फलमुच्यते । सर्वतः सर्वाणि शाक्या-ऽऽजीवक-कपिल-बोटिको-लूक-वेद-तापसादिकुमतान्याकाङ्क्षति, कृषीवल इव सर्वधान्यवपनानि कदाचित् किञ्चित् फलतीतिधिया २ । विचिकित्सा आत्मनः फलं प्रत्यनाश्वासः। यथा-आसीत्तादृशानुष्ठायिनां पुरातनानां महासत्त्वानां मोक्षः, अस्मादृशां त्वस्नानकेशलुञ्चनादिकं कष्टमेव मन्दसत्त्वत्वात् क्व मोक्षसम्भव ? इति देशतः स्तोकोऽनाश्वासः। सर्वतस्तु सर्वथाऽनाश्वासः। यद्वा-विदक् ज्ञाने' विदन्तीति क्विप् तल्लोपे विदः-साधवस्तेषां जुगुप्सा विज्जुगुप्सा । देशतोऽहो! मलदुर्गन्धा इमे मुनयो यद्युष्णोदकेन स्नायुस्तदा को दोषः स्याद् ? इत्यादि । सर्वतस्तु मण्डल्यां नन्दिपात्रे मिथः संसृष्टभोजिनोऽमी । गुप्तिगृहवासिन इव मलीमसाङ्गवाससः प्रागदत्तदानत्वेनाऽऽजन्म भिक्षाचरा इत्यादि ३ । मूढदृष्टिः परतीर्थिकानां बालतपस्वितपोविद्यामन्त्राद्यतिशयान् राजादिकृतां पूजां वा दृष्ट्वा तदागमाद्वा श्रुत्वा देशतः स्तोकान्मतिव्यामोहात्, सर्वतस्तु-सर्वथा मूढा स्वभावाच्चलिता दृष्टिः सम्यग्दर्शनरूपा यस्यासौ मूढदृष्टिः । उक्तं च