________________
सङ्घ- जीयकप्पो
...४१... यामाशातनायामपि 'लहु गुरु चउलहु ' त्तिपदस्य डमरुकमणिन्यायादत्रापि योगात् क्रमेण लघुमासगुरुमास-चतुर्लधूनि प्रायश्चित्तानि भवन्ति । 'अत्थे। त्ति । अर्थे तु अर्थविषयायां जघन्यमध्यमोत्कृष्टरूपायामाशातनायां 'गुरु चउलहु गुरुग' त्ति । क्रमेण गुरुमास चतुर्लघु चतुर्गुरूणि प्रायश्चित्तानि भवन्तीति गाथाक्षरार्थः ।।५५।।
अथ विभागतो ज्ञानाचारातिचारविषयं प्रायश्चित्तमुच्यते-स चाष्टविधस्तद्यथा-अकाले-अस्वाध्यायिकेऽनध्यायदिनेषु वा स्वाध्यायकरणं कालातिचारः १ । श्रुतमधिजिगांसोर्जात्यादिमदावलेपेन गुरुषु विनयो-वन्दनादिरुपचारस्तस्याऽप्रयोजनं हीलनं वा विनयातिचारः २ । श्रुते गुरौ वा बहुमानो-हार्दः प्रतिबन्धविशेषस्तस्याऽकरणं बहुमानातिचारः ३ । उपधानम्-आचाम्लादितपसा योगविधानं तस्याकरणमुपधानातिचारः ४। यत्सार्श्वे श्रुतमधीतं तं निझुते-अपलपति,अन्यं वा युगप्रधानमात्मनोऽध्यापकं निर्दिशति, स्वयं वाऽधीतमित्याचष्टे । एष निह्मवनाभिधानोऽतिचारः ५ । व्यज्यतेऽर्थोऽनेनेति व्यञ्जनम्-आगमसूत्रं तन्मात्राक्षरबिन्दुभिरूनमधिकं वा करोति, संस्कृतं वा विधत्ते, पर्यायैर्वाऽभिधत्ते । यथा- 'धम्मो मंगलमुक्किट्ठ' मित्यादिस्थाने 'पुन्नं कल्लाणमुक्कोसं दया संवरनिज्जरे। ति व्यञ्जनातिचारः ६। आगमपदार्थस्यान्यथापरिकल्पनमातिचारः । यथा आचारसूत्रेऽवन्त्यध्ययनमध्ये 'आवंती केयावंती लोगंमि विप्परामुसंती' त्यत्राचाराङ्गसूत्रे ‘यावन्तः केचन लोकेऽस्मिन् पाखण्डिलोके विपरामृशन्ती' ति प्रस्तुतेऽर्थेऽन्योऽर्थः परिकल्प्यते । यथा-'अवन्ती जनपदे केया-रज्जुर्वातात् कूपे पतिता तां लोकः स्पृशती' ति ७ । यत्र च सूत्रार्थों द्वावपि विनाश्यते स तदुभयातिचारः । यथा- 'धम्मो मंगलमुक्कट्ठो अहिंसा गिरिमत्थए । देवावि तस्स नस्संति जस्स धमे सया मसी' ८ । अयं च महीयानतिचारो, यतः सूत्रार्थोभयनाशे चारित्रनाशस्तन्नाशे मोक्षाभावस्तदभावे दीक्षावैयर्थ्यमिति । एष चाष्टविधो ज्ञानातिचारः । तत्र यथार्हं प्रायश्चित्तमाह -
हीणक्खराइ लहु पुत्थियाइपाडण-पयाइथुक्काई ।
चउलहु गुरु अकालाइ निंदपडिणीययाईसु ।।५६ ।।
व्याख्या-उच्चारस्याध्याहारात् हीनाक्षरोच्चारे, आदिशब्दादधिकाक्षरोच्चारे संस्कृतकरणे पर्यायैर्वाऽभिधाने व्यञ्जनातिचारे इतिभावः । लघुमासः प्रायश्चित्तं भवतीति सर्वत्र योज्यम् । तथा पुस्तिकादिपातने, आदिशब्दात् पट्टिका-पत्रटिप्पनीका-नमस्कारावल्यादिग्रहः 'सूचकत्वात् सूत्रस्य' तत्र पादादिना स्पर्शने, निष्ठ्यूतादिनाऽक्षरमार्जने च चतुर्लघु । तथा गुरुमासः प्रायश्चित्तं भवति । केषु ? इत्याह- 'अकालाइ' इत्यादि । अकालपठनादौ, आदिशब्दादध्यापकगुरुं प्रति विनयबहुमानाकरणे यथार्हमुपधानमन्तरेणैव सूत्राध्ययनेऽर्थस्यान्यथाकल्पने च ज्ञानस्य ज्ञानिनां वा निन्दायां