________________
सड- जीयकप्पो मथुरानगर्यां जितशत्रुराज्ञो 'यः कश्चिद् राधावेधं साधयिष्यति तं परिणेष्यामी' ति निश्चयवत्या निवृतिकन्यायाः स्वयंवरमण्डपे त्रयोविंशतिपुत्रयुत इन्द्रदत्तः प्राप । अन्येऽपि भूयांसो राजानः स्वस्वपरिवारपरिवृता आजग्मुः । तत्र स्वस्वोचितस्थानेषूपाविशन् । एकतश्च निर्वृतिकन्या । ततश्चेन्द्रदत्तेनाऽऽद्यपुत्रः श्रीमालीनामा राधावेधाय भणितः । राधावेधो नाम एकस्मिन् भूभागे एको बृहत्तरस्तम्भः। तत्राष्टौ चक्राणि चत्वारि सृष्ट्या चत्वारि संहारेण च भ्रमन्ति । चक्रे चक्रे चाष्टौ अष्टावक्षाः। तदुपरि चैका पुत्रिका । ततश्च भूमिस्थतलभृतभाजनाभिमुखदृष्टिना पुरुषेण चक्राष्टकाक्षमध्येन भूत्वा पुत्रिकावामाक्षितारिकावेधः क्रियते स राधावेधः । ततश्च तेन तथाविधाकृताभ्यासत्वेन वेपमानहस्तेन कथमपि गृहीतं धनुः मुक्तश्च शरो यद्भवति तद् भवत्विति विचिन्त्य प्रथमचक्र एव स्खलितः । एवं शेषैकविंशत्यापि न कृतो राधावेधः । ततश्च लज्जया राजोपहतमनास्तिष्ठति । ततश्चामात्येनोक्तं यद्-एष त्रयोविंशो युष्मदङ्गजो जयपताकां ग्रहीष्यति । कथं मदङ्गजः ? इति राज्ञोक्ते तान्यभिज्ञानानि दर्शयति । ततश्च सुरेन्द्रदत्तेन मित्रचतुष्टये विघ्नं कुर्वति द्वाविंशतौ कुमारेषु हसत्सु सुभटद्वयेऽसिव्यग्रहस्ते पार्श्वद्वयेऽवस्थिते कलाचार्ये बहुतरं निर्भर्त्सयति च तथाविधकृताभ्यासत्वेनान्यत्र कुत्रापि मनो अकुर्वता भूमिस्थतैलभृतभाजने प्रतिबिम्बिताष्टचक्राक्षाणि सुनिपुणं विलोक्य पुत्रिकावामाक्षि विद्धं हर्षकोलाहलश्चाजनि। अयमत्रोपनयः-यथा कुमारस्तथा साध्वादिः । यथा ते चत्वारि मित्राणि तथा कषायाः । यथा ते द्वाविंशतिः कुमारास्तथा परीषहाः । यथा तौ द्वौ सुभटौ तथा रागद्वेषौ । यथा पुत्रिकाक्षिवेध्यं तथाऽराधना । यथा निर्वृतिः कन्या तथा सिद्धिरिति गाथार्थः ।।५४।।
उक्तं द्वादशं प्रायश्चित्तफलद्वारम् । अथ पूर्वमुक्तमेकादशं प्रायश्चित्तद्वारम् । तत्र ज्ञानाद्याचारपञ्चकातिचारक्रमेण प्रायश्चित्तं प्रतिपादयिष्यते । तत्रादौ ज्ञानाशातनायामोघप्रायश्चित्तसाम्याद्दर्शनाचारातिचारान्तर्गतमुत्पाद्याशातनासु चौघप्रायश्चित्तमाह
तणुमझुक्कोसासायणाइ मुणि-नाण-देव-गुरु-बिंबे ।
लहु-गुरु-चउलहू सुत्ते अत्थे गुरु-चउलहु-गुरुगा ।।५५।। व्याख्या-वचनव्यत्ययात्तनुमध्योत्कृष्टाशातनाभिः जघन्यमध्यमोत्कृष्टाभिराशातनाभिर्मुनिज्ञान-देव-गुरु-बिम्बविषयाभिः 'लहु गुरु चउलहु'' त्ति । लघु-गुरु-चतुर्लघूनि क्रमेण लघुमासगुरुमास-चतुर्लघूनि प्रायश्चित्तानि भवन्ति । तत्र मुनिः प्रवर्तकादिपदविवर्जितः संयतः, ज्ञानं श्रुतम्, देवो ऽर्हन, गुरुः आचार्यादिः, बिम्बमर्हत्प्रतिमा । तेषु जघन्याशातनायां लघुमासः, मध्यमाशातनायां गुरुमासः, उत्कृष्टाशातनायां चतुर्लघु प्रायश्चित्तं भवतीति भावार्थः । ज्ञानं च सूत्रार्थभेदाद् द्वेधा । तत्र ‘सुत्ते' त्ति । अपिशब्दस्य गम्यमानत्वात् सूत्रेऽपि सूत्रविषयायां जघन्यमध्यमोत्कृष्टरूपा