________________
सड्ड- जीयकप्पो
एतदेवार्हदुक्तत्वज्ञापनपूर्वं दृढयति । 'जओ' त्ति । यत इति पूर्वोक्तार्थहत्वर्थे, तमेवाह -
अविराहिअसामण्णस्स साहुणो सावगस्स य जहण्णो ।
सोहम्मे उववाओ भणिओ तेलुक्कदंसीहिं ।।५३ ।। व्याख्या-अविराधितश्रामण्यस्य प्रकरणादालोचितातिचारत्वादिना न विराधितं सम्यगनुपालितं श्रामण्यं देशविरति-सर्वविरतिरूपं चारित्रं येन तस्य, सम्यगनालोचकस्यानाराधकतायाः प्राग् बहुशः प्रतिपादितत्वात् । एवम्भूतस्य साधोः श्रावकस्य च जघन्यः सौधर्मे प्रथमदेवलोके उपपात उत्पत्तिर्भणितः प्रतिपादितस्त्रैलोक्यदर्शिभिर्निजामलकेवलालोकावलोकिताशेषपदार्थेस्तीर्थकृद्भिरिति गाथार्थः ।।५३ ।। फलमेव प्रकारान्तरेणाह -
उद्धरियसव्वसल्लो भत्तपरिण्णाइ धणियमाउत्तो ।
मरणाराहणजुत्तो चंदगविझं समाणेइ ।।५४ ।। व्याख्या-उद्धृतसर्वशल्यो भक्तपरिज्ञायां भक्तप्रत्याख्याने धनितम् अत्यर्थमायुक्तः प्रयत्नपरः मरणाराधनयुक्त आलोचितातिचारादिवत्त्वेन कृतपण्डितमरणः, स एवंविधो महासाहसोपायाभिज्ञत्वादिगुणवान् चन्द्रकवेध्यं राधावेधं समानयति करोतीत्यर्थः । अत्र च राधावेधकथानकमावश्यकान्तर्गताभ्यां गाथाभ्यां ज्ञेयं यथा - 'इंदपुर इंददत्ते बावीस सुआ सुरिंददत्ते य । महुराए जिअसत्तू सयंवरो निबुईए उ ।।१।। अग्गियए पव्वयए बहुली तह सागरे अ बोद्धब्बे । एगदिवसेण जाया तत्थेव सुरिंददत्ते य' ।।२।। इति योगसङ्ग्रहगाथाभ्यां समवसेयम् । सक्षेपतस्तच्चेदम्-इन्द्रपुर नगरं तत्रेन्द्रदत्तो नाम राजा । तस्येष्टदेवीनां द्वाविंशतिः पुत्राः । तथा तेन राजैकाऽमात्यसुता परिणीता । सा च कर्मवशतः परिणयनसमय एव दृष्टा, न परतः । एकदा पुरान्तर्गच्छता दृष्टा साऽमात्यगेहस्था । पृष्टं च केयमिति परिजनेनोक्तं युष्मद्देवीति । ततस्तं वासकं राजा तद्गृहेऽवतस्थौ । तदा च सा ऋतुमतीत्वेन गर्भं दधौ । स वृत्तान्तोऽमात्यस्याग्रे कथितो तया । तस्यां रात्रौ राज्ञा यदुक्तं यत्कृतं च तत्सर्वममात्येनाभिज्ञानपूरणाय पत्रे लिखितम् । कालेन पुत्रो जातः सुरेन्द्रदत्तो नाम । चत्वारश्च दासीपुत्राः सहजाता अग्निक-पर्वतक-बाहुलिकसागरास्तस्य मित्राणि । द्वाविंशतिस्ते पुत्राः सुरेन्द्रदत्तश्च मित्रपरिवृतः कलाचार्यसमीपे कलाः पठन्ति । स्खलने कलाचार्यस्ताडयति। द्वाविंशतिरपि स्वस्वमातुरग्रे कथयन्ति । ताः कलाचार्यस्योपालम्भं ददति । सुरेन्द्रदत्तकथने त्वमात्यसुता प्रत्युत प्रेरयति । ततस्त्रयोविंशत्यापि राधावेधः शिक्षितः । इतश्च