________________
सङ्घ- जीयकप्पो
...४७... 'आहाकम्मुद्देसिय पूईकम्मे अ मीसजाए अ। ठवणा पाहुडियाए पाओयर कीय पामिच्चे' ।।
(पिं०नि० १०७) 'परियट्टिए अभिहडुन्भिन्ने मालोहडे य अच्छिज्जे । अणिसिट्टझोअरए सोलस पिंडुग्गमे दोसा' ।।
(पिं०नि० १०८) अनयोर्लेशतो व्याख्या-आधाकर्म नाम यत् साध्वर्थमेव सचित्तमन्नपानाधचित्तीक्रियते १ । औदेशिकं नाम यदुद्देशेन निष्पन्नम् , तच्च द्विधा-ओघतो विभागतश्च । तत्र स्खकुटुम्बार्थं पच्यमाने भक्तादौ पाखण्डिनां गृहिणां वा मध्ये यः कोऽपि समेष्यति, तस्य भिक्षादानार्थं कतिपयानधिकतरान् तन्दुलादीनोघेनसामान्येनैतावत् स्वार्थमेतावच्च भिक्षादानार्थमित्येवं विभागरहितेन गृहनायिका यत्क्षिपति तदौघोदेशिकम् । विभागतस्तु विवाहप्रकरणादिषु यदुद्धरितं भक्तादि तत् पृथक् कृत्वा दानाय कल्पितमेतद्विभागेनस्वसत्तातः पृथक्करणेनौद्देशिकं विभागौद्देशिकम् । तच्च प्रथमतस्त्रिधा । उद्दिष्टं कृतं कर्म च । तत्र स्वार्थमेव निष्पन्नमशनादिकं भिक्षाचराणां दानाय यत् पृथक्कल्पितं तदुद्दिष्टम् । यत् पुनरुद्धरितं सत् शाल्यौदनादिभिक्षादानाय करम्बादिरूपतया कतं न पनः काचिदपि जीवविराधना जाता तत्कतम
। यत् पुनरुद्धरितं मोदकचूर्णादि तद् भूयोऽपि भिक्षादानाय गुडपाकदानादिना मोदकादिरूपतया कृतं कर्म । यदुक्तम् - 'संखडिभत्तुवरियं चउण्हमुद्दिसइ जं तमुद्दिढ । वंजणमीसाइ कडं तमग्गितवियाइ पुण कम्म' ।।
(पिं०वि० ३१) एकैकं पुनश्चतुर्धा-उद्देशसमुद्देशाऽऽदेशसमादेशभेदेन । तत्र यदुद्दिष्टं कृतं कर्म वा यावन्तः केऽपि भिक्षाचराः पाखण्डिनो गृहस्था वा समेष्यन्ति, तेभ्यः सर्वेभ्योऽपि दातव्यमिति सङ्कल्पेन कृतं तदुद्देशम् । यत्तु पाखण्डिनामेव देयत्वेन कल्पितं तत्समुद्देशम् । यत् पुनः श्रमणानामेव देयत्वेन कल्पितं तदादेशम् । यच्च निर्ग्रन्थानामेव देयत्वेन कल्पितं तत्समादेशम् । यदुक्तम् - 'जावंतियमुद्देसं पासंडीणं भवे समुद्देसं । समणाणं आएसं निग्गंथाणं समाएसं' ।।
(पिं०नि० २५३) ततश्चैवं भेदाभिधानम्-उद्दिष्टोदेशम् उद्दिष्टसमुद्देशम् उद्दिष्टादेशम् उद्दिष्टसमादेशम् । एवं कृतकर्मणोरपि भेदचतुष्टयं वाच्यम् । एवं विभागतो द्वादशधौद्देशिकम् । यदुक्तम् - 'बारसविहं विभागे चउहुद्दिळं 'कडं च कम्मं च । उद्देस-समुद्देसा-ऽऽएस-समाएसभेएणं' ।।
(पिं०वि० २९) २। पूतिकर्म द्विविधं-सूक्ष्मं बादरं च । तत्राद्यमाधाकर्मिकधूमाग्निगन्धादिभिः स्यात्, परं तददुष्टमाचीर्णत्वादशक्यपरिहारत्वाच्च । बादरं पुनधा-उपकरणे भक्तपाने च । तत्रोपकरणंचूल्लीस्थालीदादिरूपम् । या च चुल्ली कियता शुद्धेन कियता चाधाकर्मिकेण कर्दमेन निष्पादिता सा इत्थम्भूता उपकरणपूतिः । अनया दिशाऽन्यस्याप्युपकरणस्य पूतित्वं भावनीयम्।