________________
सड्ड - जीयकप्पो
...३६... | एतदेवाहसो कीरइ पारंचिय लिंगाओ खित्तकालओ तवओ । संपागडपडिसेवी लिंगाओ थीणगिद्धी अ ।।
(जइजीयकप्पो २९३) पाराञ्चिकश्चतुर्द्धा-लिङ्गतः क्षेत्रतः कालतस्तपोविशेषतश्च । अत्रापि द्रव्यभावलिङ्गाभ्यां चतुर्भङ्गी पूर्ववत् ज्ञेया । तत्र सम्प्रकटप्रतिसेवी राजाग्रमहिष्यादिसेवकः स्त्यानर्द्धिमाँश्च, चशब्दादन्योऽन्यासेवनाप्रसक्तो राजवधकश्च लिङ्गतः पाराञ्चिको-द्रव्यभावलिङ्गाभ्यां पाराञ्चिकः क्रियत इत्यर्थः । क्षेत्रपाराञ्चिकं गाथाद्वयेनाहवसहिनिवेसणपाडगसाहिनिओगपुरदेसरज्जाओ । खित्ताओ पारंची कुलगणसंघालयाओ वा ।।
(जइजीयकप्पो २९४) जत्थुप्पन्नो दोसो उप्पज्जिस्सइ य जत्थ नाऊणं । तत्तो तत्तो कीरइ खित्ताओ खित्तपारंची ।।
(जइजीयकप्पो २९५) वसतिः प्रस्तावाद् ग्रामः, निवेशनम् एकनिर्गमप्रवेशद्वारो ग्रामयोरन्तराले व्यादिगृहाणां संनिवेशः, एवंविधस्वरूप एव ग्रामान्तर्गतः पाटकः, साही शाखास्वरूपेण श्रेणिक्रमेण स्थिता गृहाणामेकतः परिपाटिः, नियोगपुरं निश्चिता योगा दिनकृत्यव्यापारा यस्य स नियोगो राजा तस्य पुरं राजधानी, देशो जनपदः, राज्यं राष्ट्र यावत्सु देशेष्वेकभूपतेराज्ञा तावद्देशप्रमाणम् । एषां द्वन्द्वस्तस्मात्क्षेत्रात् पाराञ्चिकः कुलगणसङ्घालयादा कुलगणसङ्घाः प्रतीतास्तेषामा सामस्त्येन यत्र क्षेत्रे लयनं मिलनं तस्माद्वा । यत्र क्षेत्रे वसतिनिवेशनादिके उत्पन्नो दोषः पाराञ्चिककारी, उत्पत्स्यते वा यत्र तिष्ठतो दोषस्तज्ज्ञात्वा ततस्ततः क्षेत्रात् क्षेत्रपाराञ्चिकः क्रियते । कालतपःपाराञ्चिकावाह -
'जत्तिअमित्तं कालं तवसा पारंचिअस्स वि स एव । कालो दुविगप्पस्स वि अणवठ्ठप्पस्स जो भणिओ' ।।
(जइजीयकप्पो २९६) 'सूचकत्वात् सूत्रस्य' यो यावन्तं कालमनुपशान्तदोषोऽनुपरतपाराञ्चिकापत्तिहेत्वतिचारः स तावन्तं कालं कालपाराञ्चिकः । तपसा पाराञ्चिको द्विविधः-आशातनापाराञ्चिकः प्रतिसेवनापाराञ्चिकश्च । आद्यः प्रागुक्तरूपः । प्रतिसेवनापाराञ्चिकस्त्रिधा-दुष्टः प्रमत्तोऽन्योऽन्यं कुर्वाणश्च । तपःपाराञ्चिकस्य द्विविकल्पस्यापि स एव कालस्तावत्प्रमाणः समयो यः पूर्वमनवस्थाप्यस्याभिहितः । तस्य चेयं योजना-आशातनातपःपाराञ्चिकस्य जघन्येन षण्मासा उत्कर्षेण वर्षम्, प्रतिसेवनापाराञ्चिकस्य तु जघन्येन वर्षमुत्कर्षतो द्वादश वर्षाणि । तथा पाराञ्चिकमप्यनवस्थाप्यमिव संहननादिगुणवत एव दीयते । तपोऽपि परिहारिकाऽऽख्यमनवस्थाप्यस्येव पाराञ्चिकस्यापि भवतीत्यलं प्रसङ्गेनेति । नोदकः प्राह-यद्यस्ति प्रायश्चित्तं ततः कस्मात् केचित् कुर्वन्तो न दृश्यन्ते ? सूरिराह-उपायेन कुर्वन्ति, ततो न दृश्यन्ते । तथाचात्र धनिकेन सद्विभवाऽसद्विभवाभ्यां धारकाभ्यामधमर्णाभ्यां च दृष्टान्तः । एतदेव व्यवहारभाष्यगाथाभिः स्पष्टतरमुच्यते -