________________
- जीयकप्पो
―
सड -
...३५...
'अस्स आयरिअस्स अणवट्टप्पतवस्स निरुवसग्गनिमित्तं ठामि काउस्सग्गं अन्नत्थ उससीएण' मित्यादि ‘वोसिरामी’' ति यावत् । चतुर्विंशतिस्तवमनुचिन्त्य पारयित्वा चतुर्विंशतिस्तवमुच्चार्याऽऽचार्यो वक्त
'एस तवं पडिवज्जइ न किंचि आलवइ मा य आलवहा । अत्तट्ठचिंतगस्स उ वाघाओ भे न कायव्वो' ' ।।
( व्य०सू० ५४९, नि० भा० ६५९५ ) एष युष्मान्नालापयिष्यति, युष्माभिरप्येष नालाप्यः । सूत्रार्थी शरीरवार्तां वा न प्रक्ष्यति, युष्माभिरपि न प्रष्टव्यः । खेलमल्लकमात्रादिकं वा नाऽस्य ग्राह्यमर्पणीयं वा । उपकरणं परस्परं न प्रतिलेख्यम् । भक्तपानं परस्परं न ग्राह्यम् । सङ्घाटकेऽस्य न मिलनीयम् । अनेन सहैकमण्डल्यां न भोक्तव्यम् । किमप्यनेन सार्धं न कार्यं कार्यमिति । अधुना गाथाक्षरार्थ : - प्रतिपन्नानवस्थाप्यतपाः शैक्षादीनपि वन्दते, न चासौ वन्द्यते । परिहारतपश्च परिहारिकसाधूनां तपः ग्रीष्मे चतुर्थषष्ठाष्टमानि, शिशिरे षष्ठाष्टमदशमानि, वर्षास्वष्टमदशमद्वादशानि जघन्यमध्यमोत्कृष्टानि । पारणके च निर्लेपभक्तमित्येवंस्वरूपं सुदुश्चरं तपश्चरति । संवासो सह वासो गच्छेनास्यैकक्षेत्रे एकोपाश्रये एकस्मिन् पार्श्वे शेषसाध्वपरिभोग्यप्रदेशे कल्पते, नाऽऽलपनादीनि शेषाणीत्येष सङ्क्षेपतोऽनवस्थाप्यविधिः । उक्तमनवस्थाप्यार्हम्, साम्प्रतं पाराञ्चिकमाह'तित्थयर - पवयण - सुअं आयरिअं गणहरं महड्ढीयं । आसायंतो बहुसो अभिनिवेसेण पारंची' ।। (इजीको २९०, गु०वि० ३/१२)
व्याख्या - तीर्थकरादीनाशातयन् हीलयन्नाशातनापाराञ्चिको भवति । प्रतिसेवनापारञ्चिकमाह
'जो उसलिंगे दुट्टो कसायविसएहिं रायवहगो य । रायग्गमहिसिपडिसेवओ य बहुसो पगासो उ' ।। ( जइजीयकप्पो २९१ )
इह प्रतिसेवनापाराञ्चिकस्त्रिधा - दुष्टो मूढोऽन्योऽन्यं कुर्वाणश्च । तत्र दुष्टो द्विधा - कषायतो विषयतश्च । पुनरेकैको द्विधा - स्वपक्षे - श्रमण श्रमणीरूपे परपक्षे – गृहस्थेऽन्यतीर्थे वा । अत्र च स्वपक्षपरपक्षाभ्यां कषायविषयदुष्टयोश्चत्वारश्चत्वारो भङ्गाः पूर्ववदवसेयाः । स्वपक्षकषायविषयदुष्टयोरुदाहरणानि शास्त्रान्तरतोऽवसेयानि । परपक्षयोस्त्वाह 'रायवहगो अ' ' त्ति । परपक्षकषायदुष्टस्तु राजवधक उदायिनृपमारकवत् । परपक्षविषयदुष्टस्तु बहुशः पौनःपुन्येन प्रकाशो लोकतः विदितः राजाग्रमहिषी प्रतिसेवकः, अग्रमहिषीग्रहणादन्यापि राज्ञो या काचिदिष्टा तत्सेवकश्च, चशब्दाद् युवराजसेनापत्याद्यग्रमहिषीसेवकश्च द्वावप्येतौ लिङ्गपाराञ्चिकौ । उक्तो दुष्टपाराञ्चिकः । मूढः - प्रमत्तः, स तु पञ्चधा - कषाय - विकथाविषय - मद्ये - न्द्रिय - निद्राख्यैः प्रमादभेदैर्विस्तरेणाऽऽख्येयः । अन्योऽन्यं - पुरुषः पुरुषान्तरेण मैथुनाऽऽ सेवायां प्रसक्तोऽन्योऽन्यं कुर्वाणः । एवं प्रकारः पाराञ्चिकः क्रियत इत्यर्थः।