________________
सड-जीयकप्पो
|...३७... 'संतविभवो उ जाहे मग्गिओ ताहे देइ तं सव्वं । जो पुण असंतविभवो तत्थ विसेसो इमो होइ' ।।
(जी०भा० २९३, व्य०सू० ४१७५) धनिकस्य द्वौ धारको सम्भवतस्तद्यथा-सद्विभवोऽसद्विभवश्च । तत्र यः सद्विभवः स यदैव याच्यते तदैव तत्सर्वं दातव्यं ददाति । यः पुनरसद्विभवस्तत्रायं वक्ष्यमाणो विशेषो भवति । तमेवाह -
'निरविक्खो तिण्णि चयइ अप्पाण धणागमं च धारणगं । साविक्खो पुण रक्खइ अप्पाण धणं च धारणगं' ।।
(जी०भा० २९४, व्य०सू० ४१७६) धनिको द्विधा-(सापेक्षः १, निरपेक्षश्च २ । तत्र) सापेक्षो नाम यो धारकादसद्विभवाद् धनमुपायेन गृह्णाति, निरपेक्षः कर्कशग्रहेण धनग्राही । तत्र निरपेक्षस्त्रीणि त्यजति । तद्यथा-आत्मानं धनागमं धारकं च । सापेक्षः पुनस्त्रीण्यपि रक्षति । कथमित्याह - 'जो उ असंते विभवे पाए घित्तूण पडइ पाडेणं । सो अप्पाण धणेपि अ धारणगं चेव नासेइ' ।।
(जी०भा० २९५, व्य०सू० ४१७७) यो धनिको निरपेक्षोऽसद्विभवस्य पादौ गृहीत्वाऽऽत्मीयपदेन सह बद्ध्वा पातेन पतति, स आत्मानं धनं धारकं च नाशयति । यतः स तथा क्लिश्यमानो धनिकं जीविताद् व्यपरोपयेत् । यदिवाऽऽत्मानं विनाशयेत् । यद्वोभयमपि ततस्त्रयस्यापि विनाशः ।
'जो पुण सहई कालं सो अत्थं लभइ रक्खए तं च । न किलिस्सई सयंपि अ एव उवाओ उ सब्वत्थ' ।।
_(जी०भा० २९६, व्य०सू० ४१७८) यः पुनर्धनिको धारकमसद्विभवं ज्ञात्वोपायेनास्माद्धनमुपादेयमिति विचिन्त्य वक्ष्यमाणप्रकारेण कालं सहते, सोऽथ लभते, तं च धारकं रक्षति, न च स्वयमपि क्लिश्यति । एवमुपायः पुरुषेण सर्वत्र कर्त्तव्यः ।
'जो उ धारिज वढतं असंतविभवो सयं । कुणमाणो उ कम्मं तु निबिसे करिसावणं ।।
(जी०भा० २९७, व्य०सू० ४१७९) अणमप्पेण कालेणं सो तगं तु विमोयए । दिटुंतो सो भणिओ अत्थोवणओ इमो तस्स ।।
__ (जी०भा० २९८, व्य०सू० ४१८०) यो धारको रूपकशतं दातव्यं धनिकानुमत्या प्रतिमासं चैकैककाकिनीवृद्ध्या वर्धमानं धारयति ददातीतियावत्। स्वयं वाऽसद्विभवो धनिकस्य गृहे कर्म कुर्वन् कार्षापणं निवेशयति धनिकस्य प्रवेशयति । सोऽल्पेन कालेन तकत् ऋणं मोचयति । एष दृष्टान्तः, अयमर्थोपनयस्तस्य'संत-विभवेहिं तुल्ला धिइसंघयणेहिं जे उ संपन्ना । ते आवण्णं सव्वं वहंति निरणुग्गहं धीरा' ।।
(जी०भा० २९९, व्य०सू० ४१८१)