________________
...३२...
सड- जीयकप्पो अत्रोदाहरणमाह -
बालाईणणुकंपा संखडिकरणंमि होअगारीणं । ओमे अ बीअभत्तं रन्ना दिन्नं जणवयस्स ।।४९।।
(ओ०नि० भाष्य गाथा १३) व्याख्या-यथेत्यस्योदाहरणोपन्यासार्थस्य गम्यत्वाद् यथा बालादीनां बालकर्मकरादीनामुपरि अनुकम्पा दया 'होइ'' त्ति । भवति, कस्मिन् ? सङ्घडिकरणे, सङ्खडी उत्सवविशेषस्तस्याः करणमुप चारात्तद्दिनमपि सङ्खडीकरणमुच्यते तस्मिन् । केषाम् ? अगारीणां गृहस्थानामिति । अयमों- यथा सङ्खडीदिने भोजनस्य प्रहरत्रयोद्देशे सद्भावान्मते बुभुक्षया विषीदन्त्वित्यनुकम्पया बालकर्मकरादीनामसौ गृहस्थः प्रथमालिकादि प्रयच्छति । पुनदृष्टान्तान्तरमाह- 'ओमे'' त्ति, अवमे दुर्भिक्ष बहुवार्षिक बीजानि च भक्तं च बीजभक्तमेकवद्भावः । राज्ञा सर्वमेव राज्यं मम जनपदायत्तमिति विचिन्त्य दापितं (दत्तं ?) जनपदस्य लोकस्य, 'तात्स्थ्यात् तद्व्यपदेश' इति न्यायात् । ततो लोकः सुस्थः सातः, पुनस्तेन राज्ञो द्विगुणत्रिगुणाद्यर्पितमिति । एवं पूर्वश्रुतयोग्यतामप्राप्तवतां शिष्याणां सुखावबोधाय स्थविरैः कल्पादयः समुद्धृता इति गाथार्थः ।।४९।। ततः किमित्याह -
तमि धरते अज्जवि तद्दायारे अ कह तुम भणसि ?।
वुच्छिन्नं पच्छित्तं तद्दाया वा अवि अ वुत्तं ।।५०।। व्याख्या-तस्मिन् प्रायश्चित्तप्रतिपादके कल्पादौ शास्त्रे अद्यापि धरति अवतिष्ठमाने तथा तद्दातरि च प्रायश्चित्तदातरि गीतार्थे चारित्रिणि गुरौ चावतिष्ठमाने कथं त्वं भणसि ? अत्यन्तासम्बद्धत्वान्नेदं वक्तुमपि उचितमितिभावः । अत्र त्वमित्येकवचनमर्हदाज्ञाविराधकत्वेन तस्यानन्तसंसारिकत्वेन निन्द्यत्वमावेदयति । किं भणसि ? इत्याह-व्यवच्छिन्नं प्रायश्चित्तं तदाता च गीतार्थादिगुणान्वितगुरूळवच्छिन्न इति । अस्यैवार्थस्य ग्रन्थान्तरानुवादप्रदर्शनार्थमाह अपिचेत्युपन्यासे, उक्तं प्रतिपादितं शास्त्रान्तर इति गम्य इति गाथार्थः ।।५।। तदेवाह
अणवठ्ठप्पो तवसा तवपारंची अदुण्णि वुच्छिण्णा । चउदसपुवधरंमि धरति सेसा उ जा तित्थं ।।५१।।
(जइजीयकप्पो २९८) व्याख्या-तपसा कृत्वाऽनवस्थाप्यस्तपोऽनवस्थाप्यस्तथा तपःपाराधिकश्च एतौ द्वावपि प्रायश्चित्तभेदौ व्यवच्छिन्नौ । कस्मिन् पुरुष ? इत्याह-चतुर्दशपूर्वधरे श्रीभद्रबाहुस्वामिनि । शेषास्तु लिङ्गक्षेत्रकालानवस्थाप्यपाराञ्चिका यावत्तीर्थं धरन्ति अनुव्रजन्ति भवन्तीत्यर्थः । यदि लिङ्गक्षेत्र