________________
सड्ढ-जीयकप्पो
...३१... पाराश्चिकः लिङ्गक्षेत्रकालतपोभिर्बहिष्कृतस्तपसाऽपराधस्य पारं तीरमञ्चतीत्येवं साधुकारी ततो दीक्ष्यते यः स पाराञ्ची, पाराञ्च्येव पाराञ्चिकः । येन कर्मणा पाराञ्चिकः क्रियते, तत्पाराञ्चिकार्हम् । एतदाचार्यस्यैव भवति । १० । इत्थं तत्प्रायश्चित्तं दशधा भवतीति योग इति गाथार्थः ।।४६।। नन्विदानीं प्रायश्चित्तं तद्दातारश्च न सन्त्येव, तत् कः कस्यालोचनां दास्यतीत्यादि ये केचनाविदितागमरहस्याः प्रतिपादयन्ति, तन्निराकरणार्थमाह -
जो भणइ नत्थि इण्हिं पछित्तं तस्स दायगा वावि ।
सो कुबइ संसारं जम्हा सुत्ते विणिदिलं ।।४७।। व्याख्या-यः कश्चित् क्लिष्टकमैवं ब्रवीति, यदुत-इदानीं प्रायश्चित्तं दोषशोधकतपोविशेषलक्षणं नास्ति, तत्प्रतिपादकग्रन्थाभावादिति । तथा 'तस्स दायगा वावि'' त्ति, तस्य वा प्रायश्चित्तस्य दायका गीतार्थाश्चारित्रिणो गुरवोऽपि न सन्तीति । स उन्मार्गदेशकत्वादात्मनो दीर्घ संसारमेव करोति । यस्मात् सूत्रे छेदग्रन्थलक्षणे निर्दिष्टं भणितमिति गाथार्थः ।।४७।। किं तद् ? इत्याह -
सबंपि अ पच्छित्तं नवमे पुर्वमि तइयवत्थुमि ।
तत्तोच्चिअ (विय) निज्जूढं थेरेहिं सुविहिअहिअट्ठा ।।४८।। व्याख्या-सर्वमपि सकलसूक्ष्मबादरातिचारौचित्येनालोचनादिपाराश्चिकपर्यन्तं प्रायश्चित्तं तावन्नवमे प्रत्याख्याननामनि पूर्व तत्रापि तृतीयवस्तुन्याप्तैरुक्तमभूदिति शेषः । ततोऽपि च प्रायश्चित्तप्रतिपादकनवमपूर्वान्तर्गततृतीयवस्तुमध्यान् 'नियूढं'' ति कल्पव्यवहारादिग्रन्थरूपतया समुद्धृतं स्थविरैः श्रीभद्रबाहुस्वाम्यादिभिः । सुविहितहितार्थाय शोभनं विहितं येषां ते सुविहिताः संविग्नाः साधवस्तेषां कालवैषम्यादीयमानप्रज्ञाबलत्वेन पूर्वश्रुतस्य चैकोनविंशतिवर्षपर्यायलभ्यत्वेन च नवमपूर्वोक्तप्रायश्चित्तावगमदूरस्थानां हितमल्पग्रन्थनिबद्धत्वेनाल्पपर्यायलभ्यत्वेन च तदर्थायेति । तदुक्तम् - 'तिवरिसपरियागस्स उ आयारपकप्पनाम अज्झयणं । चउवरिसस्स उ सम्मं सूअगडं नाम अंगति।।१।। दसकप्पववहारा संवच्छरपणगदिक्खियस्सेव । ठाणं समवाओ वि अ अंगेए अट्ठवासस्स ।।२।। दसवासस्स विवाहो इक्कारसवासयस्स इमे उ । खुड्डिअविमाणमाई अज्झयणा पंच नायव्वा ।।३।। बारसवासस्स तहा अरुणुववायाइ पंच अज्झयणा । तेरसवासस्स तहा उट्ठाणसआइया चउरो ।।४।। चउदसवासस्स तहा आसीविसभावणं जिणा बिति । पन्नरसवासगस्स य दिट्ठिविसभावणं तह य।।५।। सोलसवासाईसु अ एगुत्तरवुडिएसु जहसंखं । चारणभावण-महसुविणभावणा तेअगनिसग्गा ।।६।। एगूणवीसगस्स उ दिट्ठीवाओ दुवालसममंगं । संपुन्नवीसवरिसो अणुवाई सव्वसुत्तस्स ।।७।। जं केवलिणा भणियं केवलनाणेण तत्तओ नाउं । तस्सन्नहाविहाणे आणाभंगो महापावो'' ।।८।।
(पंचवस्तुकः ५८२ तः ५८८ तथा ५९०) इति गाथार्थः ।।४८।।