________________
सड - जीयकप्पो
...३०... जह मन्ने पढम सेविऊण निग्गच्छई उ चरिमेणं ।
तह मन्ने चरिमं सेविऊण निग्गच्छई पढमे ।।४५।। व्याख्या-मन्ये सम्भावये, यथा येन पूर्वोक्तप्रकारेण प्रथमं प्रथमालोचनाप्रायश्चित्तशोध्यं पदमासेव्यातिसक्लिष्टाध्यवसायत्वाच्चरिमेण निर्गच्छति पाराधिकप्रायश्चित्तेन शुद्ध्यतीत्यर्थः । तुशब्दादनवस्थाप्यादिभिरपि । तथा मन्ये, चरिमं पाराञ्चिकोचितं पदमासेव्य ज्ञानाद्यालम्बनमपेक्ष्य सम्यग् यतनया प्रवृत्तत्वेन 'निग्गच्छइ पढमे'' त्ति । प्रथमालोचनाप्रायश्चित्तेनैव शुद्भयतीति भावः । यस्मादेवं तस्माद्यद् गुरव उपदिशन्ति प्रायश्चित्तं तत्तथैव समाचरितव्यमनवस्थाप्रसङ्गादिदोषभीतेन जन्तुनेति पूर्वगाथया सह सम्बन्धः ।। अथ प्रायश्चित्तभेदानाह -
तं दसविहमालोयण-पडिकमणोभय-विवेगमुस्सग्गे ।
तव-छेय-मूल-अणवट्ठया य पारंचिए चेव ।।४६।। व्याख्या- 'तं'' ति । तत् प्रस्तुतं प्रायश्चित्तं दशविधं दशप्रकारं भवतीतिक्रियासम्बन्धः। के ते दश प्रकारा ? इत्याह- 'आलोयण'' त्ति । आलोचनम् आ-मर्यादया 'जह बालो जपंतो' (अत्रग्रन्थेमूलगाथा १३) इत्यादिरूपया लोचनं-गुरोः पुरतः प्रकाशनमालोचनं, वचसा प्रकटीकरणमिति भावः। तावन्मात्रेणैव यस्य पापस्य शुद्धिस्तदालोचनाहँ, तद्विशोधक प्रायश्चित्तमुपचारादालोचनार्हम् । एवं सर्वेष्वपि उपचारो द्रष्टव्यः । १। प्रतिक्रमणं सहसाऽनुपयुक्तेन यदि श्लेष्मादि प्रक्षिप्तं भवति, न च हिंसादिकं दोषमापन्न इत्यादिकमन्यदपि यद् मिथ्यादुष्कृतमात्रेणैव शुद्ध्यति, न गुरोः पुरत आलोच्यते तत् प्रतिक्रमणार्हम् ।२। उभयम् आलोचनाप्रतिक्रमणरूपम् । यच्च प्रतिसेव्य गुरोः पुरत आलोच्यते गुरूपदेशेन च विशुद्ध्यर्थं मिथ्यादुष्कृतं दीयते तत् तदुभयाहम् ।३। विवेकः त्यागः, यस्य चानेषणीयादे : गृहीतभक्तपानादेर्विधिना परित्यागेनैव शुद्धिस्तद्विवेकार्हम् ।४। व्युत्सर्गः कायोत्सर्गः, यत्र कायचेष्टानिरोधरूपकायोत्सर्गोपयोगमात्रेणैव दुःस्वप्नादिकमिव शुद्ध्यति तद् व्युत्सर्गार्हम् ।५। तपः यत्र प्रतिसेविते निर्विकृत्यादि षण्मासिकान्तं तपो दीयते तत् तपोऽहम् ।६। छेदः यथा शेषाङ्गरक्षार्थं व्याधिदूषितमङ्गं छिद्यते , एवं व्रतशेषपर्यायरक्षार्थमतिचारानुमानेन दूषितः पर्यायो यत्र छिद्यते तच्छेदार्हम् ।७। मूलं यस्यां चासेवनायां सर्वपर्यायमपनीय पुनर्महाव्रतारोपणं क्रियते तन्मूलाहम् ।८। अनवस्थाप्यः यत्र प्रतिसेविते उपस्थापनाया अप्ययोग्यत्वेन यावदनाचीर्णविशिष्टतपास्तावदनवस्थाप्यः क्रियते, पश्चादाचीर्णतपाः पुनर्महाव्रतेषु स्थाप्यते तदनवस्थाप्यमेतदुपाध्यायादेर्भवति ।९।