________________
सड-जीयकप्पो
...२९...
आधारे - प्रतिसेवावति पुरुषे आधेयोपचाराच्चैषापि दशधा प्रतिसेवा भवतीति गाथार्थः । ।४२।। अथ प्रतिसेवनापदेषु प्रभूतेष्वेकमप्यनालोचितं महतेऽनर्थाय भवतीति । तथा च श्रीभगवद्वचः— पायच्छित्तस्स ठाणाइं संखाइयाई गोयमा ! ।
अणालोइअं तु इक्कंपि ससल्लं मरणं मरइ ।। ४३ ।। (आलोचनाग्रहण विधि प्रकरणम् ४२ )
व्याख्या–प्रायश्चित्तमतिचारविशुद्ध्यर्थं गुरुदत्तं तपः, तस्य स्थानानि अतिचारा येषु प्रायश्चित्तं दीयत इत्यर्थः । सङ्ख्यातीतानि सन्तीति भगवान् वीरः श्रीगौतमं प्रति प्राहेतिसम्बन्धः । 'अणालोइयं तु इक्कंपि' ' त्ति । इहाऽग्रतश्च विभक्तिव्यत्ययः प्राकृतत्वात् । तुशब्दः पुनरर्थे । ततस्तु - पुनरनालोचितेनैकेनापि प्रायश्चित्तस्थानेन सशल्येन मरणेन म्रियते सशल्य एव म्रियते इत्यर्थः ।। ४३ ।।
अतः सम्यगालोच्य यत् कार्यं तदाह -
ता तस्स पायच्छित्तं जं मग्गविऊ गुरू उवइसंति ।
तं तह आयरियव्वं अणवत्थपसंग भीएणं ।। ४४ ।।
( ओ०नि० ८०३ )
व्याख्या– ‘त’'त्ति, यत एवं ततस्तस्यापराधस्य प्रायश्चित्तं तपः 'जं' ' त्ति । यत् यावन्मात्रं ‘मग्गविऊ' ' त्ति, मार्गविदः । तत्र मार्गो द्विधा द्रव्यतो भावतश्च । द्रव्यतो नगरग्रामादिपन्थाः भावतस्तु मोक्षमार्गः । स च द्विधा - श्रुतरूपश्चारित्ररूपश्च । अत्र तु भावमार्गेणाधिकारस्तस्य विदः - श्रुतवन्तः क्रियावन्तश्चेत्यर्थः । ‘गुरू’' त्ति, गुरव उपदिशन्ति कथयन्ति तत् प्रायश्चित्तं तथा गुरुदत्तप्रकारेणाचरितव्यं कर्त्तव्यं साध्वादिनाऽऽलोचकेनेति गम्यते, न तु प्रमादावहीलने कार्ये इत्यर्थः । कीदृशेन ? इत्याह- ‘अनवस्थाप्रसङ्गभीतेन'' तं दृष्ट्वाऽन्योऽपि तथा करोतीत्यनवस्थाप्रसङ्गः । यद्वा— अवस्थानमवस्था न अवस्था अनवस्था अवस्थानाभाव इति यावत् । अयमर्थः - प्रथमं परिणामस्य तथाविधदारुणत्वाभावेनालोचनार्हमपराधमासेव्य पश्चाल्लज्जादिना गुरोः पुरतोऽनालोचकत्वेन परिणामदारुणत्ववृद्ध्या प्रतिक्रमणाद्यं प्राप्नोति प्रायश्चित्तं तावद्वाच्यं यावत् पाराञ्चिकमपि प्राप्नोति । एवं प्रायश्चित्तेष्वनवस्थितिरुपेति तस्याः प्रसङ्ग इति गाथार्थ: ।। ४४ । ।
लघुप्रायश्चित्तशोध्यं स्थानं भावविशेषाद् गुरुप्रायश्चित्तशोध्यं स्यात्तथा गुरुप्रायश्चित्त शोध्यं भावविशेषाल्लघुप्रायश्चित्तशोध्यं भवतीति भावस्यैव प्रायश्चित्तापत्त्यविकलहेतुत्वज्ञापनार्थं प्रायश्चित्तापत्तिवैचित्र्यमाह -
—
,