________________
सड्ड - जीयकप्पो
| ...२८...] भावापद् ग्लानत्वादिः ४। तथा शङ्कितत्वेन सन्देहेन यदतिचारजातं कृतमकृतं वेति निश्चेतुमशक्यतादिरूपेण। यद्वा-शङ्कितेन आधाकर्मादिदोषत्वेन शङ्कितभक्तपानादिविषयेन। अत्र निशीथपाठे 'तिंतिणे' त्ति पठ्यते । तत्र तिन्तिणत्वं नाम आहाराद्यलाभे सखेदं वचनम् । तथा प्रद्वेषेण-क्रोधादिकषायरूपेण । तथा विमर्शेन शेक्षकादिपरिणामपरिज्ञानार्थं परीक्षया । तथा 'भय-दप्प-पमायतिअं। ति । भयदर्पप्रमादत्रिकेन च । तत्र भयं सप्तविधम् इहपरलोकादानाकस्मादाजीवमरणाश्लोकरूपम्। दर्पो धावनवल्गनादिः । प्रमादः कषायविषयविकथादिस्तेषां त्रिकं भयदर्पप्रमादत्रिकं तेन । 'पडिसेवा दसह' । त्ति । एवं सहसाकारादिभिः सप्तभिर्भयदर्पप्रमादत्रिकेन च प्रतिसेवा । अतिचारापत्तिर्दशप्रकारा भवतीति योगः । 'अहवेस'' त्ति । अथवेति प्रकारान्तरेण एषा वक्ष्यमाणरूपा प्रकारान्तरतो दशधा प्रतिसेवा भवतीतिशेष इति गाथार्थः ।।४१।। तामेवाह
दप्प अकप्प निरालंब-चिअत्ते अप्पसत्थ-वीसत्थे । अपरिच्छि अकडजोगी निरणुत्तावी अ निस्संको ।।४२।।
___ (नि०भा० ४६३, व्य०सू० ४४४२, गु०वि० २-१९) व्याख्या-दर्पः धावनडेपनादिः । तत्र धावनं निष्कारणमतित्वरितमविश्रामं गमनम्, डेपनं गर्त्तवरण्डादीनां रयेणोल्लङ्घनम् । आदिशब्दात् मल्लवद् बाहुयुद्धकरण – लकुटादिभ्रमण - वल्गनादिग्रहः १। अकल्पः अपरिणतपृथ्वीकायादिग्रहणानन्तकाय-बहुबीज-प्रतिषिद्धसचित्तफलाद्यभ्यवहारादिः अनधीतपिण्डैषणाध्ययनसाध्वानीतोपधिशय्याधुपभोगादिर्वा २ । निरालम्बो ज्ञानाद्यालम्बनं विनापि निष्कारणमकल्पिकासेवनकारी । यद्वा-अमुकेनामुकमाचरितमतोऽहमप्याचरामीति ३ । 'चियत्ते'। त्ति । त्यक्तकत्यः त्यक्तचारित्रः, अपवादेनासंस्तरे ग्लानादिकारणे वा यदकल्प्यमासेवितं पनस्तदेव संस्तरेऽपि निवृत्तरोगोऽप्यासेवते ४ । अप्रशस्तः अप्रशस्तेन भावेन कामादिवृद्ध्याद्यर्थं कल्प्यमपि भुआनः किं पुनरकल्प्यम् ५ । विश्वस्तः प्राणातिपाताद्यकृत्यं सेवमानः स्वपक्षतः साधुश्रावकादेः परपक्षतो मिथ्यादृष्ट्यादेन बिभेति । यद्वा-अकृत्यं सेवमानः संसारादभीरुर्वा विश्वस्तः ६। 'अपरिच्छि' । त्ति । अपरीक्षी युक्तायुक्तविवेकविकलः, यद्वा-उत्सर्गापवादयोरायव्ययावनालोच्य प्रतिसेवनाकारी ७। अकृतयोगी अगीतार्थो ग्लानादिकार्ये त्रीन्वारान् कल्प्यमेषणीयं वाऽपरिभाव्य प्रथमवेलायामेव यथा तथाऽकल्प्यानेषणीयग्राही ८ । 'निरणुत्तावी अ'' त्ति । निरनुतापी अपश्चात्तापी योऽपवादेनाप्यकृत्यं कृत्वा नानुतप्यते, यथा मया दुष्कृतं कृतमिति, यस्तु दर्पणासेव्य नानुतप्यते किं तस्योच्यते ? ९। निःशङ्को निरपेक्षः अकार्यं कुर्वन् कस्याप्याचार्यादेर्न शङ्कते, नेहलोकस्यापि बिभेतीत्यर्थः । यद्वा-निश्शङ्को निर्दय इहपरलोकापायशङ्कारहितः १०। एवं दर्पाकल्पयोः सप्तमीयोगाद्दपेऽकल्पे च सति, निरालम्बादिषु त्वाधारे आधेयोपचाराच्च । अयमर्थः