________________
सड्ड - जीयकप्पो
| ...२७... शल्योद्धारश्च गीतार्थादिगुणान्वितस्य गुरोरन्तिके विधेयः । स च गुरुश्चेदासन्नो नाऽवाप्यते तदा तन्निमित्तं सप्त योजनशतान्यपि यावद् गन्तव्यमिति पूर्वमुक्तम् । तथा गच्छतश्चेदायुःपरिसमाप्तिर्भवेत्तदा किमित्याह -
आलोअणापरिणओ सम्मं संपट्टिओ गुरुसगासे । जइ अंतरावि कालं करिज्ज आराहगो तहवि ।।३९ ।।
(नि०भा० ६३१२, व्य०सू० २३२, सवेगरंगशाला० २१३५) व्याख्या-आलोचनापरिणत एकान्तेनालोचनाप्रदानपरिणामः सम्यग् मनःशुद्धया, न पुनर्बहिर्वृत्तिमात्रेण गुरुसकाशे गीतार्थगुरुसमीपे गन्तुकामः सम्प्रस्थितः प्रचलितः सन् यदि कदाचिदन्तरापि मार्गेऽपि गुरुष्वमीलितेष्वपीति भावः । कालं कुर्यान्मरणमासादयेत् तथाप्यनालोचितातिचारोऽप्याराधक एव ज्ञानादिमोक्षमार्गस्य, न विराधकः शुद्धचित्तत्वेन विधिप्रवृत्तत्वादिति गाथार्थः ।।३९।। अथ किमालोचनीयम् ? इति दशमद्वारमभिधातुकाम आह -
नाणाइसु मूलुत्तरगुणेसु कोहाइपावठाणाई ।
दवाइ य सहसाईहिं सेविअंजं तमालोए ।।४।। व्याख्या-ज्ञानादिषु ज्ञानदर्शनचारित्रेषु तथा मूलगुणेषु - 'वय-समणधम्म संजम वेयावच्चं च बंभगुत्तीओ । नाणाइतियं त कोहनिग्गहाई चरणमेअं' ।।
(ओ०नि०भा०गा० २) इति गाथोक्तेषु प्राणातिपातविरमणादिषु, उत्तरगुणेषु - 'पिंडविसोही समिई भावण पडिमा य इंदियनिरोहो । पडिलेहण गुत्तीओ अभिग्गहा चेव करणं तु।।
(ओ०नि०भा०गा०३) इति गाथोक्तेषु पिण्डविशुद्ध्यादिषु, ज्ञानादीनां मूलगुणान्तर्गतत्वेऽपि पृथगुपादानं प्राधान्यख्यापनार्थम् । यद्वा-प्रायः प्रथमं ज्ञानादिविषया अतिचारा आलोचनीया इति ज्ञापनार्थम्। 'सेविअंज। ति । सेवितं यत् कालविनयादिहीनश्रुताध्ययनादि प्राणातिपातादि च ‘तमालोए' त्ति । तदालोचयेदितिसम्बन्धः । तथा 'कोहाइपावठाणाइ' त्ति । प्राणातिपातादीनां पञ्च पापस्थानानां मूलगुणविषयप्रतिसेवितेऽन्तर्भावाच्छेषमिति पदस्य गम्यत्वाच्छेषं यत्क्रोधादि पापस्थानम्, आदिशब्दात् कृत्याकरणादि 'दबाई । त्ति । तथाविधद्रव्य-क्षेत्र-काल-भावानासाद्येति शेषः । सहसाकारादिभिर्वक्ष्यमाणलक्षणैर्यदासेवितं तत् सर्वमप्यालोचयेदिति गाथार्थः ।।४०।। अथ के ते सहसाकारादयः ? इत्याह -
सहसाऽणाभोगाउर-आवय-संकिअ-पओस-वीमंसा ।
भय-दप्प-पमायतिअं पडिसेवा दसह अहवेसा ।।४१।। व्याख्या-इह सर्वत्र प्रत्येकं तृतीयायोगः कार्यः ततः 'सहस' त्ति । सहसाकारेण, सहसाकारोऽविमृश्यकरणमाकस्मिकक्रियेत्यर्थः । तथा- अनाभोगेन अत्यन्तविस्मृत्या अज्ञानेनेतियावत् । तथा 'आउर'' त्ति । भावप्रधानत्वानिर्देशस्य, आतुरत्वेन आतुरत्वं नाम क्षुत्पिपासाद्यैः पीडितत्वम्। तथा आपद्भिस्तत्र आपच्चतुष्प्रकारा-द्रव्य-क्षेत्र-काल-भावभेदात् । तत्र द्रव्यापत् कल्पनीयाशनपानादिद्रव्यदुर्लभता १ । क्षेत्राऽऽपत् कान्तारादिषु प्रत्यासन्नग्रामादिरहितत्वं क्षेत्रमल्पं वा २। कालापद् दुर्भिक्षादिः कालः ३।