________________
जीयकप्पो
सड्डू -
...२६...
व्याख्या - सशल्यो मिथ्यादर्शनादिशल्यसंयुक्तः पुमान् यद्यपि कष्टं कष्टकारित्वात् उग्रं मन्दसत्त्वैरनाश्रयणीयत्वात् घोरं दुर्धरत्वात् वीरं वीरजनसाध्यत्वात् तपो बाह्यान्तरभेदं चरेत् कुर्यात् । कियन्मितं कालमित्याह - 'दिव्वं'' ति । लोकप्रसिद्ध्या देवसम्बन्धि वर्षसहस्रम् । तदुक्तम्
'भवेत्पैत्रं त्वहोरात्रं मासेनाब्देन दैवतम् । दैवे युगसहस्रे द्वे ब्राहम्यकल्पौ तु ते नृणाम्' ।। १ ।। इत्यादि । ततोऽपि तत्तपस्तस्य निष्फलं विशेषफलासाधकं सशल्यत्वादेवेति गाथार्थः ।। ३५ ।।
‘अविय' त्ति । अपिचेति समुच्चयार्थः । शल्यस्य अनुद्धृतस्य सर्वेभ्योऽप्यनर्थकारिवस्तुभ्योऽधिकतां गाथाद्वयेनाह.
-
नवि तं सत्थं व विसं व दुप्पउत्तो व कुणइ वेयालो । जंतं व दुप्पउत्तं सप्पुव्व पमाइणो कुद्धो ।। ३६।। (सं०प्र० १४९९, ओ० नि० ८०४ )
जं कुणइ भावसल्लं अणुद्धिअं इत्थ सव्वदुहमूलं । दुल्लहबोही अत्तं अनंतसंसारयत्तं च ।। ३७।।
व्याख्या
(सं०प्र० १५००, ओ०नि० ८०५, पंचा ०७३२) नैव तदर्थजातमात्मनः करोतीति सम्बन्धः । शस्त्रं खड्गादि, विषं द्विधा - स्थावरं कालकूटादि, जङ्गमं सर्पादि, दुष्प्रयुक्तो वा द्रव्यक्षेत्रकालाद्यनौचित्येन व्यापारितो मन्त्रपूजोपहारादिना विराधितो वैतालो दुष्टव्यन्तरः, यन्त्रं शतघ्न्यादि दुष्प्रयुक्तं विरुद्धप्रकारव्यापारितं सर्पो वा प्रमादिनः कुतूहलादिना कलिञ्चादिघट्टनप्रमादवतः क्रुद्धः सन् 'जं कुणइ' त्ति । यदनर्थजातं करोति भावशल्यं मिथ्यादर्शनादि अनुद्धृतमनिष्काशितम् (निष्कासितम् वा ) ' इत्थ' इह संसारे सर्वदुःखानां शारीरमानसाद्यशेषकष्टानां मूलं मूलहेतुः । किंरूपं तदनर्थजातं ? इत्याहदुर्लभबोधिकत्वम् । ‘बोहीयत्तमि' त्यत्रार्षत्वादिकारस्य ईकारः । तत एवानन्तसंसारिकत्वं चेति गाथाद्वयार्थः ।। ३६-३७ ।। अतस्तत्त्वज्ञा यत् कुर्वन्ति, तदाह
तो उद्धरंति गारवरहिआ मूलं पुणन्भवलयाणं । मिच्छादंसणसल्लं मायासल्लं नियाणं च ।। ३८ ।।
( ओ० नि० ८०६ )
व्याख्या–तत् तस्माद्धेतोरुद्धरन्ति हृदयान्निष्काशयन्ति गारवरहिता ऋद्ध्यादिगारववियुक्ता विवेकिन इति गम्यते । मूलं कन्दभूतं पुनर्भवलतानां - पुनर्भवः संसारः स एव लता वल्लयः तासां बहुवचनमुपमेयस्य गुपिलत्वख्यापनार्थम्, किं तदित्याह - मिथ्यादर्शनमेव शल्यं तीव्रतरदुःखहेतुत्वात् मिथ्यादर्शनशल्यम् । तथा मायाशल्यं माययाऽनुद्धृतमतिचारजातमुपचारान्मायोच्यते, ततो मायैव शल्यं मायाशल्यमतिचाराणां गुरोः पुरतोऽप्रकाशनरूपं भावशल्यमित्यर्थः । तथा ‘निदानमि' ति । निदानशल्यं विषयाभिष्वङ्गादिना प्रार्थनारूपम् । तच्च नवधा तथाच - निव १ सिट्टि २ इत्थि ३ पुरिसे ४ परपविआरे सुरे ५ सपविआरे ६ । अप्परयसुर ७ दरिद्दे ८ सड्ढे ९ हुज्जा नव निआणा । । (सं०प्र० ७८९, १२५९ ) इति गाथार्थः ।। ३८।