________________
.
...२५...
सड्ड - जीयकप्पो पावं काऊण सयं अप्पाणं सुद्धमेव वाहरइ ।
दगणं करेइ पावं बीअं बालस्स मंदत्तं ।।३१।। व्याख्या-पापं प्राणिवधादिकं स्वयमात्मना कृत्वाऽऽत्मानं 'शुद्धमेव' व्याहरति'शुद्धोऽहं मया न पापं कृतमि। ति वक्ति । तथा च स मायावी द्विगुणं पापं करोति, द्विगुणप्रायश्चित्तशोध्यत्वात् । एकमपराधनिष्पन्नमेकं च मायानिष्पन्नं च प्रायश्चित्तं प्राप्नोतीत्यर्थः। द्वितीयमेतद् बालस्य मूर्खस्य मन्दत्वम् अपायानभिज्ञत्वम् । एकं पापकरणं द्वितीयं पापापलाप इति गाथार्थः ।।३१।। ततः किं कुर्याद् ? इत्याह -
मायाइदोसरहिओ पइसमयं वडढमाणसवेगो । आलोइज्ज अकज्जं न पुणो काहंति निच्छयओ ।।३२।।
(सं०प्र० १४९७) व्याख्या-मायया आदिशब्दाल्लज्जाकम्पनादिभिश्च दोषै रहितः प्रतिसमयं प्रतिक्षणं वर्द्धमानसंवेग आलोचयेदकार्य करणानर्हत्वादकार्यं पापं, न पुनरेतदकृत्यं करिष्यामीति निश्चयादन्यथा तत्प्रदानस्य वैयर्थ्यप्रसङ्गादिति गाथार्थः ।।३२।। यथोक्तप्रकारेणालोचिताऽऽलोच्यपदानामालोचकानां फलमाह -
निट्ठवियपावपंका सम्मं आलोइउं गुरुसगासे । पत्ता अणंतसत्ता सासयसुक्खं अणाबाहं ।।३३।।
(सं०प्र० १५०४) व्याख्या-सम्यग् निर्मायतया गुरुसकाशे स्वातिचारानिति गम्यते, आलोच्य 'निट्ठवियपावपंक' त्ति । क्षपितसकलकर्माशमलाः सन्तोऽनन्तकालेनानन्तसङ्ख्याया अपि लभ्यमानत्वादनन्ताः सत्त्वाः प्राणिनः प्राप्ता गताः, किमित्याह-शाश्वतं साधनन्तत्वात् सौख्यं मुक्तावस्थालक्षणमनाबाधं क्षुदादिबाधाऽभावात् । उपलक्षणत्वाद् यास्यन्त्यनन्ता इति गाथार्थः ।।३३।। अनालोचकानां फलव्यतिरेकमाह
मरि ससल्लमरणं संसाराडविमहाकडिल्लंमि । सुइरं भर्मति जीवा अणोरपारंमि ओइन्ना ।।३४।।
(व्य०सू० १००५) व्याख्या-सशल्यमरणं यथा भवति एवं मृत्वा संसार एवाटवीमहाकडिल्लम् अटवीमहागहनम् तत्र, कीदृशे ? इत्याह-अणोरपारंमि ति । अनर्वापारे अवतीर्णाः प्राप्ताः सन्तः सुचिरं प्रभूततरकालं भ्रमन्ति नैरयिकाद्यपरापरपर्यायत्वेनोत्पद्यमाना तिष्ठन्ति जीवा इति गाथार्थः ।।३४।। अथ सशल्यस्य तपसोऽपि व्यर्थतामाह -
ससल्लो जइवि कट्ठग्गं घोरं वीरं तवं चरे । दिव्वं वाससहस्सं उ तओवि तं तस्स निष्फलं ।।३५ ।। अविय -
(सं०प्र० १४९०)