________________
सड - जीयकप्पो व्याख्या-कृतपापोऽपि विहितप्राणिवधाद्यकृत्योऽपि मनुष्यः पुरुषः आलोचितानि वाचा गुरोः पुरतः प्रकाशितानि, निन्दितानि हा ! मया दुष्टु कृतं दुष्टु कारितं दुष्टु अनुमोदितं चेत्याद्यात्मगर्हात्मिकया निन्दया गुरोः पुरत एवं जुगुप्सितानि, सूचकत्वात्सूत्रस्य स्वकृतपापानि येन स आलोचितनिन्दितः । आलोचना गुरुं विना न स्यात् निंदा तु गुरुं विनापि स्यादिति तद्व्यवच्छेदार्थमाह-कस्मिन् ? ‘गुरुसगासे'' त्ति । गुरुसकाशे गुरोः पुरतः । एवंविधः पुमान् भवत्यतिरेकलघुकोऽतिशयेन लाघववान् भवति पापभारापगमादिति शेषः । क इव ? अपहृतभार इव भारवाहकः । यथा कोऽपि भारवाहकः पुमान् लोहादिभारावतारणानन्तरमात्मानमतिशयेन लघुकं मन्यते । तथाऽऽलोचकोऽप्यालोचितातिचार इति गाथार्थः ।।२८।।
अतः सर्वाण्यपि पापानि निर्मायतयाऽऽलोचनीयानि शुद्ध्यर्थिना । यतो मायाविनः कुतोऽपि शुद्धिर्न भवतीत्याह -
कहेहि सव् जो वुत्तो जाणमाणो निगूहई । न तस्स दिति पच्छित्तं बिंति अन्नत्थ सोहय ।।२९।।
(व्य०सू० ४०४६, जी०भा० १४५) व्याख्या-'कहेहि सव्वं । ति । कथय सर्वमालोच्यजातं 'जो वुत्तो' त्ति । इति यः कश्चिन्मन्दबुद्धिरालोचनाग्राही उक्तः सन् जानन् स्मरन्नपि स्वपापानि निगृहति कानिचिद् गोपयति । तस्य मायाविन आलोचकस्य न ददति प्रायश्चित्तमागमव्यवहारिण इति गम्यते । किन्तु 'बिति', त्ति । बुवन्ति च तं प्रति- 'अन्यत्र शोधय'' इति । अन्येषां पार्थे गत्वाऽऽलोचयेति । मायावितयाऽतिचारान् गोपयन्तं न स्मारयतीति भावः ।।२९।। अथ यः स्मृत्यभावान्नालोचयति तस्य किम् ? इत्याह -
न संभरेइ जे दोसे सब्भावा न य मायओ। पच्चक्खी साहए ते उ माइणो उ न साहए ।।३०।।
(व्य०सू० ४०४७, जी०भा० १४६) व्याख्या- यः कश्चनाप्यालोचनां ददानो न स्मरति यान् दोषान् स्वापराधान् सद्भावाद् अकौटिल्यभावात्। न च मायातः मायातोऽपि हि कश्चित् क्लिष्टकर्माऽऽलोचकः स्मरन्नपि निजाकृत्यान्यस्मरन्तमिवात्मानं दर्शयति, तस्य सद्भावादस्मरणेनाऽनालोचकस्य प्रत्यक्षज्ञानी अतिशयज्ञानी आगमव्यवहारीति यावत् ‘साहए'' त्ति । साधयति कथयति ‘ते उ' त्ति । तांस्तु विस्मृतदोषान् यथा चामी दोषा विस्मृताः सन्ति तानालोचयेति । मायाविनः पुनर्दोषस्मृतावप्यनालोचकस्य न कथयति यदमुकानमुकानपराधानालोचयेति गाथार्थः।।३०।। अथ मायाविनो दोषविशेषमाह -