________________
सड - जीयकप्पो व्याख्या-यतः कारणात् पापान्यनालोचितानि कटुविपाकानि भवन्ति, ततः कारणात् सहसाकारादिभिर्यत् किञ्चित्कृतमकार्यं नैव तत् पुनः समाचरितुं लभ्यमिति क्रियासम्बन्धः। 'सहस' त्ति । सहसाकारोऽविमृश्यकरणं, यथा पूर्वमदृष्ट्वा पदक्षेपे पश्चाज्जीवदर्शन पदस्य निवर्त्तयितुमशक्यता । यदुक्तम्'पुवं अपासिऊणं छूढे पाये कुलिंगि जं पासे । न य तरइ निअत्तेउं जोगं सहसाकरणमेअं' ।। ति
(नि०भा० ९७, व्य०सू० ४०३६, जि०भा० १३५) 'कुलिंगि' त्ति। कुत्सितमनिष्टं लिङ्गमिन्द्रियं यस्य स तथा। यद्वा-कुत्सितान्यसम्पूर्णानि लिङ्गानीन्द्रियाणि यस्य स तथा । उभयत्रापि द्वीन्द्रियादिरिति । अज्ञानेन वा पञ्चधा प्रमादविरहेऽपीर्यादिष्वनुपयोगेन। तथा चोक्तम्'अन्नयरपमाएणं असंपउत्तस्स नोवउत्तस्स । इरियासु भूयत्थेसु अवट्टओ एवमन्नाणं'।।।
(नि०भा० ९६, व्य०सू० ४०३७, जि०भा० १३६) निद्राद्यन्यतरप्रमादेनासम्प्रयुक्तस्य ‘नोवउत्तस्स इरियासु भूयत्थेसु'' त्ति नो निषेधे । भूतार्थो नाम विचार-विहार-संस्तार-भिक्षादिका संयमसाधिका क्रिया । धावन-वल्गन-डेपनादिकोऽभूतार्थस्तत ईर्यासमित्यादिषु भूतार्थेष्वनुपयुक्तस्य 'अवट्टओ' । त्ति । व्याख्यानतो विशेषार्थप्रतिपत्तिर्भवतीतिन्यायतः प्राणातिपातेऽवर्तमानस्य यद् भवनम् । ‘एवमन्त्राण'' त्ति । एवंवरूपमज्ञानं भवतीति। तथा भीतेन अभियोगभयेन पलायमानेन यत्कृतं प्राणव्यपरोपणादि । 'पिल्लिएण व परेणं'। ति । परेण प्रेरितेन द्वीन्द्रियादयः प्रेरिताः । तथा व्यसनेन द्यूतादिना, प्रमादेन मद्यविषयकषायनिद्राविकथालक्षणपञ्चविधप्रमादेन । 'आयकेण व। त्ति पाठे आतङ्केन ज्वराद्युपसर्गेण, मोहेन मिथ्यात्वभावनारूपेण, रागद्वेषौ प्रतीतौ । यदुक्तम्'जूआइ होए वसणं पंचविहो खलु भवे पमाओ अ । मिच्छत्तभावणाओ मोहो तह रागदोसो अ' ।।
(व्य०सू०४०३९, जि०भा० १३८) इति प्रथमगाथार्थः । 'जं किंचि' । त्ति । एतैः सहसाकारादिभिरुक्तलक्षणैर्हेतुभिर्यत् किचिन्महत् सूक्ष्म वा कृतमकार्यमकृत्यं प्राणिवधादि भवति, नैव तदकार्यं 'लभ', त्ति लभ्यं योग्यं पुनः समाचरितुम् एकश एवालोचयिष्यामीत्यादिबुद्धया भूयः कर्तुं नैव युक्तमित्यर्थः । 'लब्भा' इति तु आकारः प्राकृतत्वात् । पूर्वकृतस्य तु किम् ? इत्याह- 'तं'' ति । सहसाकारादिहेतुभिः कृतं तदकार्यं तथैव कृतप्रकारेणैव प्रतिक्रमितव्यम् । प्रतिक्रमणालोचनादिप्रायश्चित्तविषयं विधेयमितिभावः । 'न हु'' त्ति । नैव तदकृत्यं लज्जाभयादिभिर्हदयेन वोढव्यम् । किन्तु तत्कालमेवालोचनीयमिति द्वितीयगाथार्थः ।।२६-२७।। एवं च को गुणः ? इत्याह -
कयपावो वि मणूसो आलोइअनिदिअ गुरुसगासे । होइ अइरेगलहुओ ओहरियभरुव्व भारवहो ।।२८।।
(ओ०नि० ८०७)