________________
सड- जीयकप्पो
...२२... लज्जाइ गारवेण य बहुस्सुअमएण वावि दुच्चरिअं। जे न कहति गुरूणं न हु ते आराहगा भणिआ ।।२४।।
(सम्बोध प्रकरणम् १४९४, गुरुस्थापना शतकम् ४८) व्याख्या-लज्जया व्रीडया 'गारवेण य'' त्ति । वचनव्यत्ययस्य प्राकृतत्वाद् गारवैश्च हेतुभूतै रसादिगारवप्रतिबद्धत्वेन तपोऽचिकीर्षुतयेत्यर्थः । बहुश्रुतमदेन वा बहुश्रुतोऽहमित्यभिमानेन, वाशब्दो विकल्पार्थे । अपिशब्दादपमान-प्रायश्चित्तभीरुत्वादिना च दुश्चरितं विरूद्धमासेवितं ये केचन मन्दबुद्धयः सत्त्वा न कथयन्ति नाऽऽलोचयन्ति गुरूणां पुरतः । हुशब्दस्यैवकारार्थत्वान्नैव ते दुश्चरितानालोचका आराधका ज्ञानादिमोक्षमार्गस्य भणितास्तीर्थकरगणधरादिभिरिति गाथार्थः ।।२४।। अथैनमेवार्थं दृष्टान्तपूर्वकं प्रकारान्तरेणाह -
अप्पपि भावसल्लं अणुद्धिअंरायवणिअतणएहि ।
जायं कडुयविवागं किं पुण बहुआई पावाइं ।।२५।। व्याख्या-इह शल्यं द्विधा-द्रव्यतो भावतश्च । तत्र द्रव्यतः शल्यं कण्टक-तोमरादि, परमाण्वादि द्रव्यनिष्पन्नत्वात्तस्य । भावतः शल्यं जीववध-मृषावादाद्यतिचारजातम् । भावोऽन्तरङ्गः परिणामः तमाश्रित्य शल्यमिव शल्यमात्मनोऽनन्तसंसारित्वादिविधायकत्वेन दुरन्तदुःखदायित्वात् । तदप्यल्पबहुत्वभेदतो द्विधा । तत्राल्पमपि पूर्वभवप्रव्रज्यानन्तरं स्वजायासाध्वीसानुरागावलोकनमात्रत्वेन स्तोकमपि भावशल्यं 'अनुवृतं' । गुरुभ्योऽनिवेदितं राजवणिक्तनयाभ्यां यथाक्रममार्द्रकुमारणेलापुत्रेण च जातं कटुकविपाकं दारुणायतिफलम्, तयोरेव सम्यक् संयमासन्नीकृतमोक्षयोरपि धर्मविच्युतिनीचकुलाऽऽगमनादिना दारुणपरिणामं बभूवेत्यर्थः। किं पुनर्बहूनि प्रभूतानि पापान्यतिचारपदान्यनुद्धृतानीतिशेषः । तानि हि भावशुद्ध्याऽनालोचितान्यनन्तात्यन्तदारुणसंसारफलानि जन्तूनां भवन्तीति भावः ।।२५।। एवं सति यद्विधीयते तद् गाथाद्वयेनाह -
ता सहसन्नाणेण व भीएण व पिल्लिएण व परेणं । वसणेण पमाएण व मूढेण व रागदोसेणं ।।२६।। जं किंचि कयमकज्जं न हु तं लभा पुणो समायरिउं । तं तह पडिक्कमियव्वं न हु तं हियएण वोढव्वं ।।२७।।
(ओ०नि० ८००, ८०१)