________________
सव- जीयकप्पो तर्जनपरिणामस्य सम्यक्त्वरूपत्वात् । अत एवागीतार्थोऽविधिप्रवृत्तेराशातनानिमित्तम् आशातनाप्रत्ययं आशातनया हेतुभूतयेत्यर्थः । करोति दीर्घ प्रभूतकालानुभवनीयं, चशब्दादसातवेदनीयं बहुलं संसारं भवभ्रमणमिति गाथार्थः ।।२२।।
एवं चागीतार्थस्य पुरत आलोचनाप्रदानमपायपरम्पराहेतुर्भवतीत्युक्तम् । अथ गीतार्थोऽपि सारणादिरहितः परिहार्य एव भवतीत्येतदर्थख्यापनार्थमाह -
जह सरणमुवगयाणं जीवाणं निकिंतए सिरे जो उ । एवं सारणियाणं आयरिय असारओ गीओ ।।२३।।
(नि०भा० ६६१५, व्य०सू० ५७०, गु०वि० ३/४) व्याख्या- 'यथे'' त्युपदर्शने । यथा शरणं भयार्त्तत्राणलक्षणमुपगतानां सामीप्येन प्राप्तानां जीवानां शिरांसि निकृन्तति छिनत्ति यः पापीयान् । तुः सम्भावने । सम्भाव्यतैवंविधः कोऽपि क्लिष्टकर्मा विश्वस्तघातकः । एवमनेनैवोपमानेन सारणीयानां सारणायोग्यानां संयमयोगेषु प्रमादच्यावनेन प्रवर्त्तनीयानां स्मारणीयानां वाऽज्ञानप्रमादादिना विस्मृतेषु करणीययोगेषु स्मारणार्हाणां शरणमुपगतानां, साधूनामपीति शेषः । आचार्योऽसारकोऽस्मारको वा भावनीयः । सोऽपि शरणोपगतशिरोनिकर्त्तक इवैकान्तेनाहितकारीति भावः । शरणमुपगतानां संसारापारपारावारे निरनुकम्मं प्रक्षेपणात् । स च तादृश इहपरलोकार्थिना परित्याज्यः । यस्तु खरपरुषभणनेनापि संयमयोगेषु सीदतः सारयति प्रवर्त्तयति स संसारनिस्तारकत्वादेकान्तेन हितकारीत्याश्रयणीयः। यदुक्तम् - 'जीहाए विलिहतो न भद्दओ जत्थ सारणा नत्थि । दडेणवि ताडितो स भद्दओ सारणा जत्थ'' ।।
(नि०भा० ६६१४, व्य०सू० ५६९) उपलक्षणत्वादविधिप्रवृत्तादीनां वारणाद्यकर्ता । तथाचोक्तं सारणादिवरूपम्'पम्हढे सारणा वुत्ता अणायारस्स वारणा । चुक्काणं चोयणा भुज्जो निहुरं पडिचोयणा' ।।
(गाथासहस्री ८०, विचारसारः २३८) इत्यादि । किंखरूप ? इत्याह- ‘गीओ'' त्ति पदैकदेशे पदसमुदायोपचाराद् गीतार्थोऽपीति गाथार्थः । गीतार्थस्याप्याचार्यस्य स्मारणाद्यकर्तु (रालोचना न दातव्येति तात्पर्यार्थः) रालोचनायाश्च दाने दोषाः, एवमगीतार्थस्यास्मारकगीतार्थस्यापि च पुर आलोचनाप्रदाने ये दोषा भवन्ति, तदोषप्रतिपादकमष्टमं द्वारमुक्तम् ।
अथ गीतार्थादिगुणान्वितगुरोरालोचनाया अदाने दोषा दाने च गुणा भवन्तीत्येवंरूपं नवमं द्वारं व्याचिख्यासुराह