________________
सड - जीयकप्पो
| ...२०...] व्याख्या- 'अग्गीओत्ति पदैकदेशे पदसमुदायोपचारादगीतार्थः छेदश्रुतसूत्रार्थानभिज्ञो न विजानाति शुद्धिं शुद्धिप्रकारं चरणस्य सर्वविरतिरूपस्य देशविरतिरूपस्य वा चारित्रस्यातिचारमलमलिनस्य । इयता प्रायश्चित्तजातेन इयतः सर्वविरतेर्देशविरतेर्वाऽतिचारस्य शुद्धिर्भवतीत्यादिरूपं शोधनप्रकारमगीतार्थो न जानातीत्यर्थः । अत एव सूत्रोक्तादूनमधिकं वा प्रायश्चित्तं ददाति । एवं च को दोषः ? इत्याह- 'तो' त्ति ततो न्यूनाधिकप्रायश्चित्तप्रदानत आत्मानमुत्सूत्राचरणप्रवृत्तत्वादालोचकं च तद्दत्तप्रायश्चित्तेनातिचारकालुष्यानपगमात् पातयति संसारे चतुर्गतिलक्षणे इति गाथार्थः ।।२०।। कुत एवं ? यत आह -
जो अमुणंतो सुद्धिं अपच्छित्ते य देइ पच्छित्तं ।
पच्छित्ते अइमत्तं आसायण तस्स महई उ ।।२१।। व्याख्या-यः कश्चिदगीतार्थादिः छेदश्रुतानभिज्ञत्वेन 'अमुणंतो' त्ति । अमन्वानोऽजानन् शुद्धिं शुद्धिप्रकारं द्रव्य-क्षेत्र-काल-भाव-पुरुषप्रतिसेवनाद्यौचित्येन प्रायश्चित्तप्रदानलक्षणाम् । किं करोति ? इत्याह-अप्रायश्चित्ते प्रायश्चित्तानुचिते आलोचितेऽतिचारं विनैवेत्यर्थः, ददाति प्रायश्चित्तम् । चशब्दो व्यवहितसम्बन्धत्वात् 'पच्छित्ते' इत्यत्र पुरस्ताद्योजयिष्यते । तथा 'पच्छित्ते' त्ति । प्रायश्चित्तार्हे चालोचितेऽतिमात्रं सूत्रोक्तादतिरिक्तं प्रायश्चित्तं ददाति । तस्य किं स्यादित्याह-आशातना-ज्ञानाद्यायशाटस्वरूपा तस्याऽविधिप्रायश्चित्तप्रदायकस्य तुशब्दस्यावधारणार्थत्वेन महत्येव भवत्यनन्तसंसारवर्द्धकत्वादिति । तथा चोक्तम्'अपच्छित्ते अ पच्छित्तं पच्छित्ते अइमत्तया । धम्मस्सासायणा तिव्वा मग्गस्स य विराहणा' इति गाथार्थः ।।२१।। एवं च सति किं स्याद् ? इत्याह -
आसायण मिच्छत्तं आसायणवज्जणा उ सम्मत्तं । आसायणानिमित्तं कुबइ दीहं च संसारं ।।२२।।
(उपदेशमाला - ४१०, सुमिणसित्तरि ४६) व्याख्या-आशातना मिथ्यात्वहेतुत्वान्मिथ्यात्वम् । यद्वा-आशातनैव साक्षान्मिथ्यात्वं, द्वयोरपि ज्ञानादिशाटरूपस्वरूपस्याविशेषात् । आशातनावर्जना तु साक्षात्सम्यक्त्वम् ।