________________
सड्ड- जीयकप्पो
...१९...
-
व्याख्या - लघुता यथा भारवाही अपहृतभारो लघुर्भवति तथा आलोचकोऽप्युद्धृतमनः शल्यः पापभारापगमादेकान्तलघुर्भवति । यद्वक्ष्यति - ' कयपावोवि मणूसो' ' ( अस्य ग्रन्थस्य मूलगाथा २८) इत्यादि । तथा ‘ह्लाईजणणं'' ति । ह्लादिजननं 'ह्लादैङ सुखे चे'' ति भौवादिको धातुस्ततः ह्लादनं ह्लादिरौणादिक इप्रत्ययः प्रह्नति प्रह्लादिः तस्या जननं ह्लादिजननं प्रमोदोत्पाद इतियावत् । भवति संविग्नानां परममुनीनां पापशल्यापगमतो महान् प्रमोद इति । 'अप्पपरनिअत्ति' ' त्ति | आत्मपरनिवृत्तिर्दोषेभ्य इतिशेषः । आलोचनाप्रदानतः स्वयमात्मनो दोषेभ्यो निवृत्तिः कृता, तं च दृष्ट्वाऽन्येऽप्यालोचनाभिमुखा भवन्ति इत्यन्येषामपि दोषेभ्यो निवर्त्तनमिति । तथा 'अज्जवं ' ' ति । यदतिचारजातं प्रतिसेवितं तत्परस्मै प्रकटयता स्वयमात्मन आर्जवं सम्यग् भावितं भवति । आर्जवं नाम अमायाविता । तथा शोधिः अतिचारपङ्कमलिनस्यात्मनश्चरणस्य वा प्रायश्चित्तजलेनातिचारपङ्कप्रक्षालनतो निर्मलता । तथा दुष्करकरणं दुष्करकारिता तथाहि — यत् प्रतिसेवनं तन्न दुष्करमनादिभवाभ्यस्तत्वात्, यत् पुनरालोचयति तद्दुष्करं प्रबलमोक्षानुयायिवीर्योल्लासविशेषेणैव तस्य कर्त्तुं शक्यत्वात् तस्य करणं दुष्करकरणं, तत एव मासक्षपणादिभ्योऽपि सम्यगालोचनाङ्गीकारस्याऽभ्यन्तरतपो भेदत्वेन दुष्करत्वं लक्ष्मणार्यादीनां तथाश्रवणात् । तथाचाऽऽज्ञा तीर्थकृतामाराधिता भवति। 'विणओ' त्ति पाठे तु आलोचयता चारित्रविनयः सम्यगुपपादितो भवति । निःशल्यत्वं च प्रागुक्तशल्याभावश्च प्रतिपद्यत इति । यदुक्तं श्रीमदुत्तराध्ययने -
-
'आलोअणयाए णं भते ! जीवे किं जणयइ ?, आलोअणयाए णं मायानियाणमिच्छादरिसणसल्लाणं मुक्खमग्गविग्वाणं अणंतसंसारवड्ढणाणं उद्धरणं करेइ । उज्जुभावं च णं जणयइ । उज्जुभावपडिवण्णे य णं जीवे अमाई इत्थीवेअं नपुंसगवेअं च न बंधइ, पुब्वबद्धं च णं निज्जरेइ' ' त्ति । 'सोहिगुण' ' त्ति । शुद्धेः आलोचनाया अमी उक्तस्वरूपा हापि भवे गुणा अवगन्तव्या इति गाथार्थः । । १९।।
अथागीतार्थस्य पार्श्वे आलोचनाया दाने दोषा भवन्तीत्यष्टमं द्वारमाह
-
अग्गीओ न वियाणइ सोहिं चरणस्स देइ ऊणहियं ।
तो अप्पाणं आलोअगं च पाडेइ संसारे ।। २० ।।