________________
सड - जीयकप्पो
...१८... तथा अनुमान्य अनुमानं कृत्वा लघुतरापराधनिवेदनादिना मृदुदण्डप्रदायकत्वादिस्वरूपमालोचनाचार्यस्याकलय्यालोचयति । अथवा गुरुप्रायश्चित्तार्हमपराधजातं वचनप्रकारेण लघुप्रायश्चित्ताहँ कृत्वाऽऽलोचयति । यद्वा-अमुकेनामुकमालोचितं तस्येदं प्रायश्चित्तमायातमहमपि तदनुसारेणालोचयामि यथा तावतैव प्रायश्चित्तेन मुक्तो भवामि नाऽधिकं कर्तुं क्षमोऽहमित्याभिप्रायेणेति द्वितीय आलोचनादोषः । यद् दृष्टं गुरुभिरन्येन वा साधुना गृहस्थादिना वाऽनाचरणीयमाचर्यमाणं तदेवाऽऽलोचयति न पुनरदृष्टमिति तृतीयः । 'बायरं व'' त्ति । वाशब्दस्य विकल्पार्थत्वाद् बादरं वा बादरमतिचारजातमालोचयति न तु सूक्ष्म तत्रावज्ञापरत्वादिति चतुर्थः । 'सुहुमं व'' त्ति । अत्रापि वाशब्दस्य विकल्पार्थत्वात् सूक्ष्मं वा तृणादिग्रहणरूपमालोचयति न तु बादरं, यः किल सूक्ष्ममप्यालोचयति स कथं बादरं स्वर्णमाणिक्यादिग्रहणरूपं सन्नालोचयेदित्येवंरूपभावसम्पादनायाचार्यस्येति पञ्चमः । छन् मन्दस्वरमालोचयति लज्जालुतामुपदर्य यथा स्वयमेव शृणोति न गुरुस्तथैवाव्यक्तवचनेनालोचयतीत्यर्थ इति षष्ठः । शब्दाकुलं यथा स्यात्तथाऽऽलोचयति यथा गुरुरकृत्यं सम्यग् नावगच्छति, सम्यगनवगतापराधश्च गुरुर्मे स्वल्पं प्रायश्चित्तं दद्यादिति भाववान् । यद्वा शब्दाकुलं बृहच्छब्दं यथा भवत्येवमालोचयति अगीतार्थादीनपि श्रावयतीत्यर्थः इति सप्तमः। 'बहुजण'' त्ति । बहुजनेभ्यः स्वकृतमपराधं कथयति न तु गुरुपुरत एव । अथवा बहवो जना आलोचनागुरवो यत्र तद् बहुजनमालोचनम् एकस्याप्यपराधस्य बहुभ्यो निवेदनमित्यर्थ इत्यष्टमः । 'अवत्त' त्ति । अव्यक्तम् अव्यक्तस्यानवगतछेदग्रन्थरहस्यस्य गुरोः पुरतो यदालोचनं तदप्युपचारादव्यक्तमिति नवमः । 'तस्सेवि' ' त्ति । तदेवापराधपदं स्वकृतापराधसदृशं यो गुरुः सेवते स तत्सेवी, तत्सकाशे शुद्धिं याचते । एष ममातिचारेण तुल्यस्ततो न किमपि प्रायश्चित्तं दास्यति, अल्पं वा दास्यति, न च मां खरण्टयिष्यति-यथा विरूपं कृतं त्वयेत्यादिमनःपरिणामवानिति दशमः । एतेषां दशानामप्यालोचनादोषाणां स्वरूपमवेत्यालोचकेनामी सम्यग् वर्जनीया मोक्षार्थिनेति भावार्थः ।।१८।। अथ सम्यगालोचने के गुणाः ? इति सप्तमद्वारमाह -
लहुआ हाईजणणं अप्पपरनिअत्ति अज्जवं सोही । दुक्करकरणं आणा (विणओ) निस्सल्लत्तं च सोहिगुणा ।।१९।।
(व्य०सू० ३१७, नि०भा० ६३९१)