________________
सड-जीयकप्पो
| ...१७... व्याख्या-जात्या विप्रादिकया मातृपक्षेण वा ।१। कुलेनोग्रादिकेन पितृपक्षेण वा ।२। विनयेन द्विपञ्चाशद्भेदेन ।३। उपशमेन क्रोधादिपरित्यागरूपेण ।४। पञ्चेन्द्रियजयेन ।५। ज्ञानेन श्रुतज्ञानादिरूपेण ।६। दर्शनेन श्रद्धानलक्षणेन च समग्राः सहिताः ।७। 'अणणुत्तावि। त्ति । आलोचनान्तरं पश्चात्तापरहिताः ।८। अमायिनो मायारहिताः ।९। चरणयुताः चारित्रवन्तः।१०। 'आलोअगा भणिअ' त्ति । उत्कर्षतो दशैतद्गुणविशिष्टा आलोचका आलोचनादानयोग्या भणिता आगमे इतिशेषः । यदुक्तमागमे
दसहिं ठाणेहिं संपण्णे अणगारे अरहति अत्तदोसं आलोइत्तए । तं० जातिसंपण्णे१ कुलसंपण्णे२ विणयसंपण्णे३ णाणसंपण्णे४ दंसणसंपण्णे५ चरित्तसंपण्णे खते७ देते८ अमायी९ पच्छाणणुतावी१० इति । तत्राऽऽलोचकानां शिष्याणां किमेतावान् गुणकलापोऽन्विष्यते ? इत्युच्यते-जातिसम्पत्रास्तावत् प्रायोऽकृत्यं न कुर्वन्ति कृतं च सम्यगालोचयन्ति कुलसम्पन्नाः प्रतिपन्नप्रायश्चित्तनिर्वाहका भवन्ति। विनयसम्पन्नाः वन्दनादिकाया आलोचनासामाचार्याः सम्यक् प्रयोक्तारो भवन्ति । उपशमसमग्रा(सम्पन्ना) गुरूपालम्भादितर्जिता अपि न कुप्यन्ति । इन्द्रियजयसमग्रा(सम्पन्ना)स्तपः सम्यक् कुर्वन्ति । ज्ञानसम्पन्नाः श्रुतानुसारेण सम्यगालोचयन्ति अमुकश्रुतेन मे दत्तं प्रायश्चित्तमतः शुद्धोऽहमिति च जानते । दर्शनसमग्रा(सम्पन्ना): प्रायश्चित्ताच्छुद्धिं श्रद्दधते । अननुतापिनो नाम ये पश्चात्परितापं न कुर्वन्ति – हा ! दुष्टं कृतं मया यदालोचितमिदानी प्रायश्चित्ततपः कथं करिष्यामीति । प्रत्युतैवं मन्यन्ते-धन्योऽहं यत् प्रायश्चित्तं प्रतिपन्नवानिति । अमायिनोऽप्रतिकुञ्चितं निर्मायमालोचयन्ति । चरणयुताः पुनरतिचारं प्रायो न कुर्वन्ति अनालोचिते वा चारित्रं मे न शुद्ध्यतीति सम्यगालोचयन्तीति गाथाभावार्थः ।।१७।। उक्तगुणस्यालोचकस्यालोचना निर्जराफला भवति । उक्तगुणरहितस्य त्वालोचनायाः प्रायः प्रयासमात्रफलत्वादित्यत एतदर्जन यतनीयं निर्जरार्थिनेति । अथेह के दोषाः ? इति षष्ठं द्वारं व्याचिख्यासुरालोचकस्य दश दोषानाह -
आकम्पइत्ता अणुमाणइत्ता जं दिटुं बायरं व सुहुमं वा । छन्नं सदाउलयं बहुजण अवत्त तस्सेवी ।।१८।।
(भगवतीसूत्रम् ७९९, व्य०सू० ५२३) व्याख्या- 'आकम्प्ये। ति । अयं गुरुर्वैयावृत्त्यकरणादिभिरावर्जितः सन् मम महत्यप्यपराधे यथा लघीयांसं प्रायश्चित्तं दण्डं ददातीत्यभिप्रायेणाऽऽलोचनाचार्यमावर्ण्य यदालोचयति स प्रथम आलोचनादोषो भवतीतिक्रियासम्बन्धो वाच्यः १ ।