________________
...१६...
ड्ड - जयकप्पो रूपग्रहणम् ।४। संहनन–धृतियुक्तो व्याख्यानादिषु न खेदमेति । ५ - ६ । अनाशंसी श्रोतृभ्यो न वस्त्राद्याकाङ्क्षति ।७। अविकत्थनो हितमितभाषी । ८ । अमायी सर्वत्र विश्वस्यः ।९। स्थिरपरि— पाटिः स्थिरपरिचितग्रन्थस्य सूत्रार्थगलनाऽसम्भवात् । १० । ग्राह्यवाक्यः सर्वत्रास्खलिताज्ञः ।११। जितपर्षद् राजादिसदसि न क्षोभमुपयाति । १२ । जितनिद्रश्चाऽयमप्रमत्तत्वान्निद्राप्रमादिनः शिष्यान् सुखेनैव प्रबोधयति । १३ । मध्यस्थः शिष्येषु समचित्तो भवति । १४ । देशकालभावज्ञः सुखेनैव गुणवद्देशादौ विहरिष्यति ।१५-१६-१७ । आसन्नलब्धप्रतिभो द्राक् परवाद्युत्तरदानसमर्थो भवति ।१८। नानादेशभाषाविधिज्ञस्य नानादेशजाः शिष्याः व्याख्यानं सुखमवभोत्स्यन्ते ।१९। ज्ञानाद्याचारपञ्चकयुक्तः श्रद्धेयवचनो भवति । २० - २१-२२-२३-२४ । सूत्रार्थतदुभयविधिज्ञ उत्सर्गापवादप्रपञ्चं यथावत् ज्ञापयिष्यति । २५ । हेतूदाहरणनिमित्तनयप्रपञ्चज्ञोऽनाकुलो हेत्वादीनाचष्टे । २६–२७ - २८ - २९ । ग्राहणाकुशलो बह्वीभिर्युक्तिभिः शिष्यान् बोधयति । ३० । स्वसमयपरसमयज्ञः सुखेनैव तत्स्थापनोच्छेदौ करिष्यति । ३१ - ३२ । गम्भीरः खेदसहः । ३३। दीप्तिमान् पराऽधृष्यः । ३४ । शिवहेतुत्वात् शिवस्तदधिष्ठितदेशे मार्याद्युपशमात् । ३५ । सौम्यः सर्वजनमनोरमणीयः । ३६ । गुणशतकलितः प्रश्रयादिगुणोपेतः एवंविधः सूरिः प्रवचनानुयोगे योग्यो भवतीति गाथाचतुष्टयार्थः । यद्वा संविंग्गो मज्झत्थो संतो मउओ रिऊ सुसंतुट्टो गीयत्थो कडजोगी भावन्नू लद्धिसंपन्नो ।।१।। देसें आदेओ मइमं वित्राणिओ कवी बाई । मत्ती ओसी उबारी धारणा लिओ । । २ । । बहुर्दिट्ठो नयनिउणो पियवओ सुरसरो तवे निरओ । सुसरीरो सुप्पइभो चाई आनंदओ दक्खो ।।३।।
१०
।
१३
१७
२९
३०
३३
३४
३५
गंभीरो अणुवत्ती पडिवन्नपालओ थिरो धीरो । उचियन्नू सूरीणं छत्तीसगुणा इमे हुंति । । ४ । । एतासां व्याख्या शास्त्रान्तरतो ज्ञेया । यद्वा
―
―
'अट्ठविहा गणिसंपय, चउग्गुणा नवरि हुति बत्तीसं । विणओ य चउब्भेओ, छत्तीस गुणा इमे गुरुणो ।
( प्रव० सारो ० ५४० ) इत्यादिनानाप्रकारैरुक्ता अनेकधा सूरीणां षट्त्रिंशद् गुणा भवन्तीत्यलं विस्तरेण ।। १६ ।। अथ केनेति पञ्चमद्वाराभिधित्सयालोचकस्य दश गुणानाह - जाइकुलविणयउवसम - इंदिअजयनाणदंसणसमग्गा ।
अणुत्तावि अमाई चरणजुयालोअगा भणिआ ।।१७।। ( आलोचनाग्रहणविधिप्रक० २२, पुष्पमा० ( उप०) ३६६ )