________________
सड्ड - जीयकप्पो
|...१५... गंतूण गुरुसमीवं काऊणं अंजलिं विणयमूलं ।
जह अप्पणो तह परे जाणाविज्जत्ति उवएसो ।।१४।। (ओ०नि० ७९८) व्याख्या-गुरुसमीपं गत्वा कृत्वा च विनयमूलं विनयपूर्वकमञ्जलिं 'जह अप्पणो' त्ति विभक्तिव्यत्ययादात्मना यथा जानाति तथा परान् गुरूनपि ज्ञापयेत् स्वकीयदुष्कृतानीति गम्यते । इत्युपदेशस्तीर्थकरगणधरादीनामिति गाथार्थः ।।१४।। अथ सम्यग् प्रायश्चित्तदानविधिज्ञेनापि परसमक्षमेवालोचनीयमिति दृष्टान्तद्वारेणाह -
जह सुकुसलो वि विज्जो अन्नस्स कहेइ अप्पणो वाहिं । एवं जाणंतस्सवि सल्लुद्धरणं परसगासे ।।१५।।
(ओ०नि० ७९६, गच्छाचार पयन्ना १३) व्याख्या-यथा सुकुशलश्चिकित्सायामतिनिपुणोऽपि वैद्योऽन्यस्य वैद्यस्य कथयत्यात्मनो व्याधिम् । एवं जानतोऽप्यतिचारानुरूपेण सम्यग् प्रायश्चित्तपदान्यवगच्छतोऽपि गीतार्थस्यापीति भावः। अपिशब्दादजानतः किं वाच्यम् । शल्योद्धरणं परसकाश एव कर्तुं युज्यत इति गम्यत इति गाथार्थः ।।१५।। नन्वियमालोचनात्मसाक्षिक्यपि केनापि विधेया उत परसाक्षिक्येव ? उच्यते-परसाक्षिक्येव । एतदेवाह -
छत्तीसगुणसमन्ना-गएणवि (गएण तेण वि) अवस्स कायव्वा । परसक्खिया विसोही सुठुवि ववहारकुसलेणं ।।१६।।
(ओ०नि० ७९५, जी०भा० ४११, नि०भा० ३८६२, व्य०सू० ४२७८) व्याख्या-षट्त्रिंशद्गुणैः शास्त्रान्तरप्रसिद्धैः समन्वागतेन संयुक्तेन तेनाऽप्यशेषमहर्षिजनातिशायितया प्रसिद्धेनाप्याचार्येणेति गम्यते । अवश्यमितिपदस्यावधारणार्थत्वाद् भिन्नक्रमत्वाच्च परसाक्षिक्येव विशोधिः अतिचारालोचनेन निःशल्यता कर्त्तव्या । कीदृशेन ? इत्याह- 'सुट्ठवि ववहारकुशलेणं' ति । सुष्ठ्वपि पूर्वोक्तपञ्चव्यवहारनिपुणेनेति गाथाक्षरार्थः । षट्त्रिंशद् गुणास्त्वमीदेस-कुल-जाइ-रूवी संघयणी धिइजुओ अणासंसी । अविकत्थणो अमाई थिरपरिवाडी गहियवक्को ।।१।। जियपरिसो जियनिद्दो मज्झत्थो देशकालभावन्नू । आसन्न-लद्ध-पइभो नाणाविहदेसभासन्नू ।।२।। पंचविहे आयारे जुत्तो सुत्तत्थतदुभयविहिन्नू । आहरण-हेउ-कारण-नयनिउणो गाहणाकुसलो ।।३।। ससमय-परसमयविऊ गंभीरो दित्तिमं सिवो सोमो । गुणसयकलिओ जुत्तो पवयणसारं परिकहेउं ।।४।।
(सं०प्र० ६०० तः ६०३, द०वै०नि० ५-टीका) एतासां गाथानां किञ्चिद् व्याख्या – आर्यदेशोद्भूतः सुखावबोधवचनो भवतीत्यतो देशग्रहणम्।।१। पैतृकं कुलमिक्ष्वाक्वादिज्ञातकुलश्च यथोत्क्षिप्तभारवहने न श्राम्यतीति ।२। मातृकी जातिस्तत्सम्पन्नो विनयादिगुणवान् भवति ।३। यत्राकृतिस्तत्र गुणा वसन्तीति