________________
...१४...
सड- जीयकप्पो व्याख्या-यः संविग्नो मोक्षाभिलाषी, माईवितः संजातमार्दवः, प्रियधर्मा एकान्तवल्लभसंयमानुष्ठानो यो ज्ञानदर्शनचारित्रेषु मध्ये यान् अर्थान् उपादेयान् अनुष्ठानविशेषान् परिहापयति हानि नयति तं तान् संस्मारयन् भवति स्थविरः । सीदमानान् साधून ऐहिकामुष्मिकापायप्रदर्शनतो मोक्षमार्गे स्थिरीकरोतीति स्थविर इति व्युत्पत्तेस्तथा चाह - 'थिरकरणा पुण थेरो, पवत्तिवावारिएसु अत्थेसु । जे जत्थ सीयइ जइ, संतबलो तं पचोएइ' ।।
(व्य०सू० ९५१) व्याख्या–प्रवर्त्तिव्यापारितेष्वर्येषु यो यत्र यतिः सीदति, (तं) सद्विद्यमानं बलं यस्य स सबलस्तथाभूतः सन् यस्तं प्रचोदयति-प्रकर्षेण शिक्षयति स स्थिरकरणात् स्थविर इति । उक्तं स्थविरस्य खरूपम् । अधुना गीतार्थस्वरूपमाह - 'उद्धावणा-पहावण-खित्तोवहिमग्गणासु अविसाई । सुत्तत्थतदुभयविऊ गीयत्था एरिसा हुति' ।।
(व्य०सू० ९५२) . व्याख्या-उत्-प्राबल्येन धावनमुद्भावनं प्राकृतत्वाच्च स्त्रीत्वनिर्देशः । किमुक्तं भवति-तथाविधे गच्छप्रयोजने समुत्पन्ने आचार्येण सन्दिष्टोऽसन्दिष्टो वा आचार्यान् विज्ञप्य यथैतत्कार्यमहं करिष्यामीति तस्य कार्यस्यात्मानुग्रहबुद्ध्या करणमुद्धावनं, शीघ्रं तस्य कार्यस्य निष्पादनं प्रधावनं, क्षेत्रमार्गणा क्षेत्रप्रत्युपेक्षणा, (उपधिमार्गणा) उपधेरुत्पादनम् एतासु येऽविषादिनो विषादं न गच्छन्ति । तथा सूत्रार्थतदुभयविदः, अन्यथा हेयोपादेयपरिज्ञानायोगात् ते एतादृशा एवंविधा गीतार्था गणावच्छेदिन इत्यर्थः । इत्यलं प्रसङ्गेनेति गाथार्थः ।।१२।। अथ कथमिति चतुर्थं द्वारमभिधित्सुराह
जह बालो जपंतो कज्जमकज्जं च उज्जुयं भणइ । तं तह आलोइज्जा मायामयविप्पमुक्को य ।।१३।।
(व्य०सू० ४२७९,३१६, नि०भा० ३८६३,६३९२, ओघ०नि० ८०२) व्याख्या-यथा येन प्रकारेण बालोऽव्यक्तचैतन्यः शिशुर्मातापित्रोः पुरस्ताज्जल्पन कार्य सभ्यं कथनार्हम्, अकार्यं चासभ्यं कथनानर्हमपि ऋजुकं लज्जाभयादिभिरवक्रीकृतं भणति व्याहरति। ततः किमित्याह – 'तं' ति । तत्कार्यं च स्वकृतं 'तह' त्ति । एवकारस्य गम्यमानत्वात् तथैव बालकप्रकारेणैवालोचयेत् प्रकटयेदालोचक इति गम्यते । किंविशिष्टः सन् ? इत्याहमायामदविप्रमुक्तश्चशब्दाल्लज्जादिरहितश्चेति गाथार्थः ।।१३।। किं कृत्वाऽऽलोचयेद् ? इत्याह -