________________
सड्डू - जीयकप्पो
...३३...
कालानवस्थाप्यपाराञ्चिका यावत्तीर्थं भवन्ति, तदालोचनादिप्रायश्चित्तानां यावत्तीर्थं भवने किं वाच्यमितिभावः । अथ किञ्चिदनवस्थाप्य - पाराञ्चिकयोः स्वरूपं यतिजीतकल्पगाथाभिरेवोच्यते 'कीरइ अणवट्टप्पो सो लिंगा खित्तकालओ तवओ । लिंगेण दव्वभावे भणिओ पव्वावणाणरिहो' ' ।। ( जइजीयकप्पो २८५ ) व्याख्या–क्रियते तथाविधापराधकारित्वान्महाव्रतेषु लिङ्गे वा नावस्थाप्यत इत्यनवस्थाप्यः । स चतुर्द्धालिङ्गतः क्षेत्रतः कालतस्तपोविशेषतश्च । लिङ्गं द्विधा - द्रव्ये भावे च । तत्र द्रव्यलिङ्गं रजोहरणादि, भावलिङ्गं महाव्रतादि । अत्र चतुर्भङ्गी - द्रव्यलिङ्गेन भावलिङ्गेन चानवस्थाप्य इत्येको भङ्गः । द्रव्यलिङ्गेनानवस्थाप्यो न भावलिङ्गेनेति द्वितीयः । भावलिङ्गेनानवस्थाप्यो न द्रव्यलिङ्गेनेति तृतीयः । उभाभ्यामपि नानवस्थाप्य इति चतुर्थः । इह द्रव्यलिङ्गेन भावलिङ्गेन चानवस्थाप्यः प्रव्राजनानर्हो भणितः ।
—
लिङ्गानवस्थाप्यादि चातुर्विध्यमेव विवृण्वन्नाह -
'अप्पडिविर ओसन्नो न भावलिंगारिहोणवटुप्पो । जो जत्थ जेण दूसइ पडिसिद्धो तत्थ सो खित्ते ' ' ॥ ( जइजीयकप्पो २८६ ) व्याख्या - अप्रतिविरतः साधर्मिकान्यधार्मिकस्तैन्यात् प्रदुष्टचित्तत्वेनानिवृत्तः स्वपक्षपरपक्षप्रहरणोद्यतो निरपेक्षोऽनुपशान्तवैरो यः स द्रव्यभावलिङ्गाभ्यामनवस्थाप्यः प्रथमभङ्गवर्त्ती क्रियते। अष्टाङ्गनिमित्ताद्यर्थ– दानप्रयोक्ताऽवसन्नादिकस्तत्तद्दोषानिवृत्तो न भावलिङ्गार्हः अयं भावः - स द्रव्यलिङ्गी भवति, न भावलिङ्गमर्हति । भावलिङ्गमपेक्ष्यानवस्थाप्यः तृतीयभङ्गवर्त्ती भवतीत्यर्थः । द्वितीय - चतुर्थभङ्ग पुनर्न सम्भवत इति । क्षेत्रतोऽनवस्थाप्यो यो यत्र क्षेत्रे येन कर्मणा दूष्यते स तद्दोषकरणनिवृत्तोऽपि तत्र क्षेत्रे प्रतिषिद्धः महाव्रतेषु स्थापने निराकृतः - यथार्थादानकारी तत्रैव क्षेत्रे महाव्रतेषु न स्थाप्यते । यतः पूर्वाभ्यासात्तं लोको निमित्तं पृच्छेत् स च वा तं निमित्तज्ञानजमृद्धिगौरवं सोढुमक्षमः कदाचित् कथयेत्, ततोऽन्यत्र नीत्वोपस्थाप्यः । उत्तमार्थप्रतिपन्नस्य पुनस्तत्रापि - स्वस्थानेऽपि स्थितस्य महाव्रतारोपः कार्य एव । उक्तौ लिङ्गक्षेत्रानवस्थाप्यौ । कालतपोऽनवस्थाप्यावाह'जत्तियमित्तं कालं तवसा उ जहण्णएण छम्मासा । संवच्छरमुक्कोसं आसायइ जो जिणाईणं' ( जइजीयकप्पो २८७ ) व्याख्या - यो यावन्तं कालं दोषान्नोपरमते स तावन्तं कालमनवस्थाप्यः क्रियते । तपसा त्वनवस्थाप्यो द्विधा-आशातनाऽनवस्थाप्यः प्रतिसेवनाऽनवस्थाप्यश्च । तत्र जिनादीनां तीर्थकर - सङ्घ - श्रुताऽऽचार्य—महर्द्धिक—गणधराणामाशातनां यः कुर्यात्, यथा - तीर्थकरैः सर्वोपायकुशलैरपि गृहवासत्यागादिकाऽतिकर्कशा देशना कृता, यदि च गृहवासो न श्रेयान् ततः किमिति स्वयं
" ||
-