________________
एवं सति यद्विधेयं तदाह
व्याख्या 'तं' ·
-
सड्डीको
-
तं न खमं खुपमाओ मुहुत्तमवि चिट्ठिउं ससल्लेणं । आयरिअपायमू गंतूण
समुद्धरे
ति । तस्माद्धेतोर्न क्षमं - न युज्यते
'पमाओ' त्ति । दकारलोपात् प्रमादतः प्रमत्ततावशात् न तु तादृग्गुर्वप्राप्त्यादिना, मुहूर्त्तमपि क्षणमपि स्थातुं सशल्येन अनालोचितातिचारपदेन किन्तु तत्कालमेवाचार्यपादमूले गत्वा समुद्धरेत् स्वमनः कोटरात् कर्षयेत् प्रकाशयेदित्यर्थः । किमित्याह - शल्यं प्रबलरागद्वेषादिकृतं स्वकर्म, निःशल्यो भवेदिति
भावः ।। ५ ।।
अथ कदा दद्याद् ? इति द्वितीयद्वारमाह
सल्लं ।। ५ ।। (नि० भा०६३०९ )
पक्खिय चाउम्मासे वरिसे वुक्कोसओ अ बारसहिं ।
निअमा आलोइज्जा गीआइगुणस्स भणिअं च ।।६।।
-
......
व्याख्या - पाक्षिके चतुर्मासके वार्षिके वा पर्वणि तावद्यावदुत्कर्षतो द्वादशभिर्वर्षैर्वा निश्चयेनाऽऽलोचयेत् गीतादिगुणयुक्तस्य सूत्रार्थवेत्तृत्वादिगुणगणगरिष्ठस्य असाधारणविशेषणाद् गुरोः पार्श्वे इति गाथाक्षरगमनिका ।
अयमत्र भाव:
'गीअत्थो कडजोगी' ' ( अस्य ग्रन्थस्य मूलगाथा - ८ ) इत्यादि - गाथावक्ष्यमाणासाधारणगीतार्थादिगुणयुक्तगुरुसामग्र्यां पाक्षिके आलोचयेत् । तत्र गुरुसामग्र्यभावादिना केनचित् कारणेनाऽऽलोचनाया अप्रदाने चतुर्मासके, तत्राऽपि तददाने वार्षिके वा पर्वणि आलोचनीयम् । एवं तावद्यावदुत्कर्षतो द्वादशभिर्वर्षेः उत्कर्षतो द्वादश वर्षाणि प्रतीक्ष्य गीतार्थगुरोः पुरत आलोचनीयं, न पुनर्गीतार्थादिगुणरहितस्य पार्श्वे आलोचनादानं युक्तम् । तत्र प्रत्युतापायसम्भवात् बहुनापि कालेन बहुतरक्षेत्रगमनेनापि च सद्गुणगुरोः समीप एवाऽऽलोचनादानस्याऽनुज्ञातत्वात् । भणितं चैतदर्थप्रकाशनसूत्रे ।।६।।
किं भणितम् ? इत्याह
सल्लुद्धरणनिमित्तं खित्तंमि य सत्त जोयणसयाइं ।
काले बारस वरिसा गीअत्थगवेसणं कुज्जा ।।७।।
-
व्याख्या - शल्योद्धरणनिमित्तं पूर्वोक्तस्वरूपस्य शल्यस्य प्रकाशनाय, क्षेत्रे इत्यत्र पञ्चम्यर्थे सप्तमी । ततः क्षेत्रतः क्षेत्रमाश्रित्य सप्त योजनशतानि । काले इत्यत्रापि सप्तम्याः पञ्चम्यर्थव्याख्यानात् कालतः कालमाश्रित्य द्वादश वर्षाणि गीतार्थस्य छेदग्रन्थसूत्रार्थाभिज्ञस्य, उपलक्षणत्वात् संविग्नादिगुणस्य गुरोर्गवेषणम् अन्वेषणं कुर्यात् इति गाथार्थः ।
भावार्थस्त्वयं-स - सम्यगात्मनः शुद्धिं कर्तुकामेन गीतार्थादिगुणोपेतस्यैव गुरोरालोचना प्रदातव्या । तादृशश्चेद् गुरुस्तत्र क्षेत्रे प्रत्यासन्नक्षेत्रे वा नाप्यते तदा तादृग्गुरुनिमित्तं दूरं दूरतरं