________________
सड- जीयकप्पो
| ...८... | वा तावद् गन्तव्यं यावत् सप्त योजनशतानि । तथा पाक्षिके चतुर्मासके वार्षिक वा गीतार्थादिगुणान्वितस्य गुरोरालोचना प्रदातव्या । वार्षिकऽपि यदि तादृशो गुरुर्न प्राप्यते तदा तावत्कालं प्रतीक्षणीयं यावता सद्गुरोरवाप्तिः स्यादुत्कर्षतो द्वादशाऽपि वर्षाणि प्रतीक्षेत । न च तथाऽप्यगीतार्थस्यान्तिके आलोचनां दद्यात् कस्यचनापि गुणस्याभावात् प्रत्युतानर्थसम्भवात् । यदुक्तम् - 'नासेइ अगीअत्थो चउरंग सब्बलोअसारंगं । नटुंमि चउरंगे न हु सुलह होइ चउरंग' मिति ।।
(व्य०सू० १७०७) अथ कस्येति तृतीयद्वारमभिधित्सुराह -
गीअत्थो कडजोगी चारित्ती तह य गाहणाकुसलो ।
खेअनो अविसाई भणिओ आलोयणायरिओ ।।८।। व्याख्या- गीतार्थादिगुणयुक्त आलोचनाऽऽचार्य आलोचनाप्रदानयोग्यो गुरुर्भवतीति क्रियासम्बन्धः । गीतार्थः अधीताचारप्रकल्पनिशीथादिश्रुतसूत्रार्थः । यदुक्तम्'गीअं भन्नइ सुत्तं अत्थो पुण होइ तस्स वक्खाणं । गीएण य अत्थेण य संजुत्तो होइ गीअत्थो।।।
(गाथासहस्री २४७) इति । कृतयोगी नाम सूत्रोपदेशेन मोक्षाविरोधी कृतः अभ्यस्तो यो योगो मनोवाक्कायव्यापारात्मको विविधषष्ठाष्टमादितपोध्यानादिरूपो वा स कृतयोगः, स यस्याऽस्तीति स कृतयोगी विविधशुभध्यानतपोविशेषैः परिकर्मितात्मशरीर इत्यर्थः । चारित्रीति निरतिचारचारित्रवान् । तथा ग्राहणाकुशलः ग्राहणा नाम बह्वीभिर्युक्तिभिरालोचनादायकानां विविधप्रायश्चित्तादिविधेरङ्गीकरणं तत्र कुशलः । खेदज्ञः खेदो नाम प्रायश्चित्तादिविधिविषयः परिश्रमोऽभ्यास इति यावत् तं जानातीति खेदज्ञः प्रायश्चित्तविधेः सम्यग् ज्ञातेत्यर्थः । अविषादी महत्यप्यालोचकस्य दोषे श्रुते न विषादवान् प्रत्युतालोचनादायकस्य तत्तन्निदर्शनगर्भवैराग्यवचनैरुत्साहक इत्यर्थः ।।८।। पुनरालोचनाचार्यस्यैव विशेषगुणस्वरूपमाह
आयारवमाहारव ववहारुबीलए पकुबी अ ।
अपरिस्सावी निज्जव अवायदंसी गुरू भणिओ ।।९।। (व्य०सू० ५२०) व्याख्या-आचारवान् आचारो ज्ञानाचारादिरूपः पञ्चप्रकारः सोऽस्यास्तीत्याचारवान् १, आधारवान् आलोचितापराधानामासामस्त्येन धारणमाधारः सोऽस्यास्तीत्याधारवान्, आलोचकेनालोच्यमानं यः सर्वमवधारयति स आधारवानित्यर्थः २, व्यवहारवान् प्ररूपणादिप्रकारेण व्यवह्रियतेऽपराधजातं प्रायश्चित्तप्रदानतो येन स व्यवहारः आगमादिकः पञ्चप्रकारः पूर्वोक्तस्वरूपः सोऽस्यास्तीति व्यवहारवान्, यः सम्यगागमादिव्यवहारं जानाति, ज्ञात्वा च सम्यक् प्रायश्चित्तप्रदानतो व्यवहरति स व्यवहारवानित्यर्थः ३, अपव्रीडकः अपगता ब्रीडाऽस्येत्यपव्रीडः, अपव्रीडं कुरुतेऽपव्रीडयति, अपव्रीडयति लज्जां मोचयतीत्यपव्रीडकः। आलोचकं लज्जयाऽतिचारान् सम्यगनालोचयन्तं सर्वथा गोपायन्तं वा यो विचित्रमधुरादिवचनप्रयोगैः परमसंवेगसारैस्तथा कथञ्चनापि वक्ति यथा स लज्जामपहाय