________________
सड- जीयकप्पो आलोयणा सपक्खे चउकन्ना इह छकन्न परपक्खे ।
संविग्गभाविएणं दायब विहीइ जं भणिअं ।।३।। व्याख्या-आलोचना स्वापराधप्रकाशनरूपा गुरोः पुरतः पुरुषादिना दातव्येति सम्बन्धः। कथम्भूता ? इत्याह- 'सपक्खे चउकन्न' त्ति । पुरुषः पुरुषस्यालोचनां ददाति स्त्री स्त्रियाश्च तदा स्वपक्षस्तस्मिन् स्वपक्षे पुरुषादौ गुरौ पुरुषादिकमालोचनादायकमाश्रित्य चतुष्कर्णा-दौ गुरोः कर्णों द्वौ चालोचनादायकस्येति चतुर्णामेव कर्णानां भावात् । पुनः कथम्भूता ? इत्याह'इह छकन्न परपक्खे'। त्ति । इह प्रवचने-श्रीजिनागमे, न तु परतीर्थिकग्रन्थेषु, यत एवंरूपस्यवक्ष्यमाणसूक्ष्मदोषपरिहारप्रावीण्यस्थ तेष्वसद्भावात् । यदा स्त्री पुरुषस्यालोचनां ददाति, पुरुषः स्त्रिया वा तदा परपक्षस्तस्मिन् परपक्षे पुरुषादौ गरौ स्व्यादिकमालोचनादायकमाश्रित्य षट्कर्णा द्वौ गुरोः कर्णो द्वयोः स्त्र्यादिकयोरालोचकयोश्चत्वार इति षण्णामेव कर्णानां सद्भावात् । यतः सूत्रे तज्जातीयद्वितीययुक्तस्यैव योषिदादेरालोचनादानमनुज्ञातं, न त्वेकाकिनः तथात्मपरोभयसमुद्भवदोषसम्भवात् अज्ञातस्वरूपाणां किमेतौ प्रच्छन्नमालोचयत इति शङ्काभावाच्च । कीदृशेन शिष्येण दातव्या ? इत्याह- 'संविग्गभाविएणं' ति । संविग्नो मोक्षाभिलाषी भावितः श्रीजिनागमवासितान्तःकरणः, संविग्नश्चासौ भावितश्चेति विग्रहः तेन । कथमित्याह-विधिना ऋजुत्वादिना चतुर्थद्वारे-'जह बालो जंपतो' (अस्य ग्रन्थस्य मूलगाथा १३) इत्यादिवक्ष्यमाणलक्षणेन ईर्यापथिकीप्रतिक्रमणशोधिसन्देशनाद्यर्थमुखवस्त्रिकाप्रतिलेखनवन्दनकप्रदानादिलक्षणेन शास्त्रान्तरप्रसिद्धेन वा । यस्तु विधिना नालोचयति किन्तु लज्जादिभिः स्वपापानि गोपायति तस्य शुद्धिर्न भवति । 'जं भणिअं' ति । यतः कारणाद् भणितं सूत्रे च वक्ष्यमाणमेवं रूपं प्रतिपादितं विद्यते ।।३।। किं तद् भणितमित्याह -
न हु सुज्झई ससल्लो जह भणि सासणे धुअरयाणं । उद्धरिअसबसल्लो सुज्झइ जीवो धुअकिलेसो ।।४।।
___ (व्य०सू० २२९) व्याख्या-हुशब्दस्यैवकारार्थत्वात् न हु नैव शुद्ध्यति अतिचारमलसमुद्भवकालुष्यविरहितो न भवत्येव । क ? इत्याह –सशल्यः संयमशरीरोपघातकारित्वात् शल्यमिव शल्यम्-अतिचारजातं ततो लज्जादिभिरनालोचितेन शल्येन सह वर्तत इति सशल्यो, जीव इति गम्यते । कुत एवमुच्यत ? इत्याहयथा येन हेतुना भणितं प्रतिपादितं शासने प्रवचने, केषाम् ? इत्याह धूतरजसां विधूतसमस्तकर्मणां जिनेन्द्राणामित्यर्थः । किं भणितम् ? इत्याह- उद्धृतसर्वशल्यो ज्ञानादिविषयाऽशेषसूक्ष्मबादरातिचारप्रकटनेन समुत्खाताऽखिलभावशल्यः शुद्ध्यति सकलापराधपदोद्भूतकालुष्यापनयनेन निर्मलो भवति जीवः । विशेषणद्वारेण हेतुमाह- धूतक्लेशो विधूतकषाय इत्यर्थः । कषाया हि कर्मोपादानस्याविकलं कारणं तेषु च सत्सु न कथञ्चनाप्यात्मनः सम्यग् निःशल्यता शुद्धिश्च स्यादिति गाथार्थः ।।४।।