________________
सड- जीयकप्पो
ततोऽत्र गाथानामक्षरार्थ एव ज्ञातव्यः । शब्दव्युत्पत्तिः संस्कारश्च स्वयमेव ज्ञातव्यौ, केवलस्य समुदायार्थमात्रस्यात्र कथनात् । तथा सूत्रे सामस्त्येन साक्षादनुक्तमपि चशब्दादिसूचितं किञ्चित् विशेषार्थजातं भणिष्यते । यतो भवति हि क्वचित् सूत्रे साक्षादनुक्तस्यान्यथोक्तस्य वाऽर्थविशेषस्य प्रतिपत्तिः प्राकृतत्वात् ।१। क्वापि सूचामात्रकृतत्वात् सूत्रस्य ।२। क्वाप्युपलक्षणव्याख्यानात् ।३। पदैकदेशे पदसमुदायोपचारात् ।४। विभक्तिव्यत्ययात् ।५। वचनव्यत्ययात् ।६। लिङ्गव्यत्ययात् ।७। विभक्तेर्लोपात् ।८। क्रियाध्याहारात् ।९। सम्भवच्चशब्दाध्याहारात् ।१०।हवा ।११। ऽनुस्वार ।१२। द्विर्भावानां यथौचित्येन भावाभावाभ्यां ।१३। बहुवचनप्रयोगेऽपि द्विवचनस्य करणात् ।१४। षष्ठीस्थानेऽपि चतुर्थ्या व्याख्यानात् ।१५। अकारप्रश्लेषात् ।१६। एवमन्येभ्योऽपि ‘प्राकृतं बहुल'' मितिवचनाल्लब्धेभ्यः पूर्वविद्वज्जनप्रतिपादितेभ्योऽविशेषलक्षणेभ्यः सूत्रे साक्षादनभिहितापि विवक्षितार्थसङ्गतिविधयेति । तथा श्रीमदुत्तराध्ययनबृहद्वृत्तावप्युक्तम्- 'क्वचित् सौत्र्या शैल्या क्वचिदधिकृतप्राकृतवशात्, क्वचिच्चार्थापत्त्या क्वचिदपि समारोपविधिना । क्वचिच्चाध्याहारात् क्वचिदविकलप्रक्रमबलादियं व्याख्या ज्ञेया क्वचिदपि तथाऽऽम्नायवशत' ।।१।। इति । अथ ग्रन्थकृत् प्रतिज्ञातनिर्वाहणाय सकलग्रन्थवक्तव्यार्थसङ्ग्रहपरां द्वारगाथामाह
आलोअण दिज्ज कया कस्स कहं केण क इह दोसगुणा ।
दाणादाणे वा किं आलोअणिअं पछत्त-फलं ।।२।। व्याख्या-आलोचनादीनि द्वादश द्वाराणि भवन्तीति क्रियासम्बन्धः । 'आलोअण' त्ति । पूर्वमालोचना खापराधप्रकाशनरूपा येन विधिना विधीयते, यथा च सम्यगनालोचकस्य सशल्यत्वेन न शुद्धिः तद्विपरीतस्य च शुद्धिस्तद्वक्तव्यम् ।१। तथा कदा कस्मिन् कियति वा काले आलोचनां दद्यात् ।२। तथा कस्य कीदृशस्य गुरोः पार्थे ।३। तथा कथं केन प्रकारेण, ऋजुत्वादिना ।४। तथा केन कीदृशेन शिष्येणालोचना प्रदातव्येति च वाच्यम् ।५। तथा के इहालोचनायां दोषाः ।६। के गुणा इति चाभिधातव्यम् ।७। तथाऽगीतार्थस्य पार्श्वे आलोचनाया दाने ये दोषा भवन्ति ते वक्ष्यन्ते ।८। तथा गीतार्थस्यापि पुरतो लज्जादिभिः सम्यगालोचनाया अदाने ये दोषाः सम्यग् दाने च ये गुणास्ते अभिधास्यन्ते ।९। किं वाऽऽलोचनीयं-मूलोत्तरगुणादिविषयमपराधजातमिति वाच्यम् ।१०। तथा प्रायश्चित्तमतिचारानुरूपं तपःप्रदानम् । 'पच्छित्त' । त्ति प्राकृतत्वात् इष्टरूपसिद्धिः ।११। फलं सम्यगालोचितातिचारानुरूपप्रायश्चित्तप्रतिपत्त्यादिना परमार्थप्रसिद्धिरूपं चेति द्वादशं द्वारं वक्तव्यम् ।१२। अयं च द्वारगाथासक्षेपार्थः । विस्तरार्थस्तु यथास्थानमभिधास्यते ।।२।। अथ 'यथोद्देशं निर्देश'' इति प्रथमालोचनाद्वारमुच्यते । तत्र येन विधिनाऽऽलोचना प्रदीयते तामाह -