________________
सड्ढ - जीयकप्पो धारणाव्यवहारस्तु संविग्नेन गीतार्थेनाचार्येण द्रव्यक्षेत्रकालभावपुरुषप्रतिसेवना अवलोक्य यत्रापराधे यत् प्रायश्चित्तं दत्तं तदृष्ट्वाऽन्योऽपि तेष्वेव द्रव्यादिषु तादृशे वाऽपराधे तदेव प्रायश्चित्तं दत्ते एष धारणाव्यवहारः । अथवा वैयावृत्त्यकरस्य गच्छोपग्रहकारिणः सर्द्धकपतेर्वा प्रवर्तकस्य संविग्नस्य देशदर्शनसहायस्य वाऽनेकशः कृतकार्यस्य समस्तछेदश्रुतदानाऽयोग्यस्य सानुग्रहो गुरुः कानिचिदुद्धृतानि प्रायश्चित्तपदानि कथयति । स तान्यवधार्योद्धृतपदालोचनां ददाति, स धारणाव्यवहारस्तदुक्तम्'गीयत्थेणं दिन्नं सुद्धिं अवधारिऊण तह चेव । दितस्स धारणा तह उद्धिअपयधरणरूवा य' ।।
(पुष्पमाला (उपदेशमाला) ३६१, प्रवचन सारो० ८५८)।४। पञ्चमस्तु जीतव्यवहारः । येष्वपराधेषु पूर्वमहर्षयो बहुना तपःप्रकारेण शुद्धिं कृतवन्तस्तेष्वपराधेषु साम्प्रतं द्रव्यक्षेत्रकालभावान् विचिन्त्य संहननादीनां च हानिमासाद्य तदुचितेन केनचित्तपःप्रकारेण गीतार्थाः शुद्धिं निर्दिशन्ति तत्समयभाषया जीतमुच्यते । अथवा यद्यत्र गच्छे सूत्रातिरिक्तं न्यूनं वा कारणतः प्रायश्चित्तं प्रवर्तितं तज्जीतं तस्य व्यवहारो जीतव्यवहारस्तदुक्तम्'दव्वाइं चिंतिऊणं संघयणाईण हाणिमासज्ज। पायच्छित्तं जीअं रूढं वा जं जहिं गच्छे' ।।१।। तथा- 'वत्तणुवत्तपवत्तो बहुसो आसेविओ महाणेणं । एसो अ जीअकप्पो पंचमओ होइ नायबो' ।।२।।
__ (व्य०सू० ४५०२, जी०भा० ६७५) वृत्तः पात्रबन्ध-ग्रन्थिदानादिक एकदा नवो जातः, ततोऽनुवृत्तः पुरुषान्तरं यावत्, ततः प्रवृत्तः पुरुषप्रवाहेणात एवासेवितो महाजनेन बहुश्रुतनिवहेन । भाष्यकृताऽप्युक्तम्'वत्तो नामं इक्कसि अणुवत्तो जो पुणो बिइअवारं । तइअवारं पवत्तो सुपरिग्गहिओ महाणेणं' ।।
__ (व्य०सू० ४५०३) 'बहुसो बहुस्सुएहिं जो वत्तो न य निवारिओ होइ । वत्तणुवत्तपमाणं जीएण कयं हवइ एयं' ।।
(व्य०सू० ४५२३) एष जीतकल्पः पञ्चमो व्यवहारो भवति ज्ञातव्यः ।५ । इह पञ्चसु व्यवहारेषु सत्सु आगमव्यवहारिभ्य एव प्रायश्चित्तमादेयम् । आगमव्यवहारिणो ह्यतिशयिनः संक्लिश्यमानं विशुद्ध्यमानमवस्थितपरिणामं वा ज्ञात्वा श्रुतादधिकं हीनं तन्मात्रं वा तावद्ददति यावता शुद्ध्यति, न श्रुतमनुरुध्यन्ते । ।
तदभावे श्रुतव्यवहारिभ्यो ग्राह्यं, ते हि श्रुतमनुवर्त्तमाना इङ्गिताकारनेत्रवक्त्रवचनविकारैर्भावसवेगाद्यमुपलक्ष्य त्रीन् वारानालोचनां कारयित्वा परिकुञ्चितमपरिकुञ्चितं वा ज्ञात्वा श्रुतोक्तं प्रायश्चित्तं ददति । तथाविधासन्नश्रुतधराभावे आज्ञाव्यवहारेण दूरस्थानामपि गीतार्थाचार्याणां पार्थात् प्रायश्चित्तमानायितव्यम् । तेषामप्यभावे श्रुतधरपाविधारितप्रायश्चित्तपदेभ्यो धारणाव्यवहारिभ्यो ग्राह्यम् । ते च द्वयेऽपि श्रुतोक्तप्रदत्वात् श्रुतव्यवहारकल्पा एव । सर्वेषां चैषामप्राप्तौ जीतेन व्यवहारः । जीतं-श्रुतोक्तापत्तितो हीनमधिकं वा परम्परयाऽऽचीर्णं तेन व्यवहारः । अयं च यावत्तीर्थं भवतीति । अस्य च जीतकल्पस्य विवरणं सङक्षेपेण च विधास्यते।