________________
सड-जीयकप्पो
...३...
,
‘आगम-सुअ-आणा - धारणा य जीए अ पंच ववहारा' इति वचनात् । एतेषां च परस्परमयं विशेषः । तथाहि - आगमव्यवहारिणस्तावत् षङविधाः, तद्यथा - केवलिनो, मनः पर्यायज्ञानिनो - ऽवधिज्ञानिनश्चतुर्दशपूर्विणो, दशपूर्विणो नवपूर्विणश्च । 'केवल - मणो - हि - चउदस-दसनवपुब्वाई पढमित्थ' इति वचनात् । अत्र यदा केवली प्राप्यते तदा तस्याऽग्रे प्रायश्चित्तं गृह्यते, तदभावे मनःपर्यवज्ञानिनः पार्श्वे एवं पूर्वपूर्वाभावे उत्तरोत्तरस्यान्तिके प्रायश्चित्तमङ्गीक्रियते यावन्नवपूर्विणः पार्श्वे इति । ते च केवल्यादयो जानाना अप्यालोचकमुखेन तदपराधपदानि शृण्वन्ति, न तु स्वयमेव ज्ञात्वा प्रायश्चित्तं ददते। एवमेव मानभ्रंश निर्मायता – ऽऽराधनादिभावात् । ततो निर्मायितयाऽऽलोचिते प्रायश्चित्तं ददते । समायतया तु स्वापराधपदाऽनालोचनेऽन्यस्य पार्श्वे आलोचयेति कथयन्ति । आलोचितेऽपि च सम्यग् प्रत्यावृत्तस्यैव प्रायश्चित्तं ददते, नाऽन्यस्य । विस्मृतं तु स्मारयति न तु गोपितं, निष्फलत्वादिति । वक्ष्यति च —
'कहेहि सव्वं जो बुत्तो ० ' ' ( अस्य ग्रन्थस्य मूलगाथा २९ )
"
'न संभरेइ जे दोसे० ' ' ( अस्य ग्रन्थस्य मूलगाथा ३० ) इत्यादि । १ ।
श्रुतव्यवहारिणश्चाष्ट
सप्त
—
पञ्च - - चतु - स्त्रि - द्व्येकार्द्धपूर्विण एकादशाङ्गधारिणो
। श्रुतव्यवहारश्चा
निशीथकल्पव्यवहारदशाश्रुतस्कन्धपञ्चकल्पाद्यशेषश्रुतसूत्रार्थाभिज्ञाश्च चाराङ्गादीनामष्टमपूर्वान्तानामेव । यदुक्तम् – 'आयारपकप्पाई सेसं सव्वं सुअं विणिद्दिट्ठ' ' मिति । अत्राह कश्चिद् – कथमष्टमपूर्वान्तमेव श्रुतं नवमपूर्वादीनामश्रुतत्वम् ? अत्रोच्यतेआगम्यन्ते- परिच्छिद्यन्तेऽतीन्द्रियाः पदार्था येन स आगम इति व्युत्पत्तेर्नवमपूर्वादीनां श्रुतत्वाविशेषेऽपि केवलज्ञानादिवदतीन्द्रियार्थेषु विशिष्टज्ञानहेतुत्वेन सातिशयत्वादागमत्वेनैव व्यपदेशः । शेषश्रुतस्य तु नातीन्द्रियार्थेषु तथाविधोऽवबोधस्ततोऽस्मिन् श्रुतव्यवहारः । ते च श्रुतव्यवहारिणोऽपराधपदानि शृण्वन्तो मयाऽनाभोगादिना सम्यग् न श्रुतं पुनरालोचयेत्याद्युक्त्वा त्रिरालोचनां दापयन्ति । सदृगालोचनेऽपराधनिष्पन्नं प्रायश्चित्तं ददतेऽन्यथा मायानिष्पन्नमपराधनिष्पन्नं च प्रायश्चित्तद्वयं ददते । इदानीं चागमव्यवहारिणामभावे समयानुसारेणोत्कृष्टतमश्रुतानां श्रुतव्यवहारिणां सन्निधावालोच्यते । २।
-
षट्
-
—
आज्ञाव्यवहारस्तु कावपि गीतार्थाचार्यौ सम्यगधिगताशेषसूत्रार्थी क्षीणजङघाबलौ दवीयोदेशवासिनौ परस्परेणोपान्तमागन्तुमक्षमौ तयोरेकः प्रायश्चित्तं जिघृक्षुरगीतार्थं मतिधारणाकुशलं सन्दिष्टवस्तुनयनसमर्थमागमभाषया गूढान्यपराधपदानि कथयित्वा मन्दमेधसं पुनः शिष्यं तानि लिखित्वा वा समर्प्य द्वितीयाचार्यसमीपे प्रस्थापयति । सोऽपि गूढपदैः प्रायश्चित्तं कथयित्वा लिखित्वा वा समर्प्य प्रेषयति । एष आज्ञालक्षणस्तृतीयो व्यवहारस्तदुक्तं- 'देसंतरठियाणं गूढपयालोयणा आण'' त्ति । ३ ।