________________
सड- जीयकप्पो अतो योग्यानामेव दातव्यः ।
अथ च सर्वाण्यपि शास्त्राणि मङ्गलाभिधेयप्रयोजनसम्बन्धप्रतिपादनपुरस्सराण्येव प्रणीयन्त इति प्रस्तुतशास्त्रस्यादौ शास्त्रकृत् मङ्गलाभिधेयनयोजनानां साक्षादभिधानाय सम्बन्धस्य संसूचनाय चेमामादिगाथामाह
कयपवयणप्पणामो जीयगयं सड्ढदाणपच्छित्तं ।
सपरहिअधारणट्ठा जहासुअं किंपि जपेमि ।।१।। व्याख्या- कृतप्रवचनप्रणामोऽहं जीतगतं श्राद्धदानप्रायश्चित्तं किमपि जल्पामीति क्रियासम्बन्धः। प्रकर्षण परसमयापेक्षया यथावस्थितभूरिभेदप्रभेदैरुच्यन्ते जीवाजीवादयः पदार्था अनेनास्मिन्वेति प्रवचनम् सामायिकादिबिन्दुसारपर्यन्तं मुख्यतः श्रुतज्ञानम् । उपचारात् तत्रोपयुक्तश्चतुर्विधः सङ्घोऽपि । कृतः प्रवचनस्य, मनसा तत्तद्गुणचिन्तनादिरूपो वाचा तदुच्चारणादिस्वरूपः कायेन भूमौ शिरोलगनादिलक्षणश्च प्रणामो येन स तथा । एतेन शास्त्रकृन्मङ्गलमभिदधे । जीतगतं जीतव्यवहारानुप्रविष्टं, श्राद्धदानप्रायश्चित्तं श्राद्धानां श्रमणोपासकानामतिचारौचित्येन दानयोग्यं पापं छिनत्तीति पापछित् । अथवा प्रायः चित्तं जीवं मनो वाऽतिचारमलमलिनं शोधयतीति प्रायश्चित्तम् । यदुक्तम् - 'पावं छिंदइ जम्हा पायच्छित्तंति भण्णए तम्हा । पाएण वावि चित्तं विसोहए तेण पच्छित्तं' ।।
(व्य०सू० ३५) आर्षत्वात् प्राकृतेन पच्छित्तं । किमपि कियन्मानं, न सर्वं सामस्त्येन श्राद्धातिचारविशेषप्रायश्चित्तानां प्रकाशनासामर्थ्यात् । जल्पामि प्रतिपादयामीत्येतेनाभिधेयमाह । प्रयोजनं द्वेघाकर्तुः श्रोतुश्च । द्वयमपि द्विधा – अनन्तरं परम्परं च । तत्रानन्तराभिधित्सयाऽऽह – किमर्थं ? 'सपरहिअधारणट्ट' त्ति । स्वपरहितधारणार्थाय । स्वपरयोर्हितं तच्च अवबोधेन शुभोदर्क लक्षणे तद्धारणं चेति वा समासः। एतेन कर्तुः श्रोतुश्चानन्तरं प्रयोजनमुक्तम् । परम्परं पुनरुभयोरपि प्रायश्चित्तपदानां याथातथ्यप्रवर्त्तनेन परम्परया निःश्रेयसावाप्तिर्भवतीति स्वयमभ्यूह्यम् । सम्बन्धस्तु प्रायश्चित्तपदज्ञानमुपेयमिदं शास्त्रं तस्योपाय इत्येवमुपायोपेयलक्षणः सामर्थ्यादवसेयः । कथम् ? यथाश्रुतं श्रुतस्यनिशीथादेरनेकश्राद्धजीतकल्पलक्षणस्य स्वगुरुसम्प्रदायागतस्य चानतिक्रमेण । यथा तेषूक्तं तथैव, न स्वमनीषिकयेति गाथाक्षरार्थः ।
इह प्रवचने पञ्च व्यवहाराः प्रोच्यन्ते, तेषु व्यवहारेषु जीतव्यवहारानुसारेणैवात्र प्रायश्चित्तपदानि कथयिष्यन्ते। ते चामी पञ्च व्यवहारा आगम-श्रुता-ऽऽज्ञा–धारणा-जीताख्याः ।