________________
सड्ढ- जीयकप्पो
|...९८... चतुर्मासिकत्रिमासिकाख्यमध्यमापत्तौ मध्यमोत्कृष्टमष्टमम्, मध्यममध्यमं षष्ठम्, मध्यमजघन्यं चतुर्थम् । द्विमासिकगुरुमासाख्यजघन्यापत्तौ जघन्योत्कृष्टं षष्ठम्, जघन्यमध्यमं चतुर्थम् , जघन्यजघन्यमाचामाम्लमिति 'शिशिरायनवकतपांसि' ' इति । लघुपक्षे लघुमासाख्योत्कृष्टापत्तौ उत्कृष्टोत्कृष्टमष्टमम्, उत्कृष्टमध्यमं षष्ठम्, उत्कृष्टजघन्यं चतुर्थम्, भिन्नमासाख्यमध्यमापत्तौ मध्यमोत्कृष्टं षष्ठम्, मध्यममध्यमं चतुर्थम्, मध्यमजघन्यमाचामाम्लम् । विंशत्याख्यजघन्यापत्तौ जघन्योत्कृष्टं चतुर्थम्, जघन्यमध्यममाचामाम्लम्, जघन्यजघन्यमेकाशनकमिति । 'शिशिरद्वितीयनवकतपांसि " इति । लघुस्वपक्षे पञ्चदशाख्योत्कृष्टापत्तावुत्कृष्टोत्कृष्टं षष्ठम्, उत्कृष्टमध्यमं चतुर्थम्, उत्कृष्टजघन्यमाचामाम्लम् । दशाख्यमध्यमापत्तौ मध्यमोत्कृष्टं चतुर्थम्, मध्यममध्यममाचामाम्लम्, मध्यमजघन्यमेकाशनकम् । पञ्चाख्यजघन्यापत्तो जघन्योत्कृष्टमाचामाम्लम्, जघन्यमध्यममेकाशनकम् , जघन्यजघन्यं पुरिमार्द्धः । इति 'शिशिरलघुस्वपक्षरूप-तृतीयनवकदानतपांसि' इत्येवं शिशिरे सप्तविंशतिदानतपांसि लिखितानि । अथ ग्रीष्मसम्बन्धीनि लिख्यन्ते यथा-गुरुपक्षेषाण्मासिकाख्योत्कृष्टापत्तावुत्कृष्टोत्कृष्टमष्टमम्, उत्कृष्टमध्यम षष्ठम्, उत्कृष्टजघन्यं चतुर्थम् । चतुर्मासिकत्रिमासिकाख्यमध्यमापत्तौ मध्यमोत्कृष्टं षष्ठम्, मध्यममध्यम चतुर्थम्, मध्यमजघन्यमाचामाम्लम् । द्विमासिकगुरुमासाख्यजघन्यापत्तौ जघन्योत्कृष्टं चतुर्थम्, जघन्यमध्यममाचामाम्लम्, जघन्यजघन्यमेकाशनकमिति। 'ग्रीष्माद्यनवकदानतपांसि' इति। लघुपक्षे लघुमासाख्योत्कृष्टापत्तावुत्कृष्टोत्कृष्टं षष्ठम्, उत्कृष्टमध्यमं चतुर्थम्, उत्कृष्टजघन्यमाचामाम्लम् । भिन्नमासाख्यमध्यमापत्तौ मध्यमोत्कृष्टं चतुर्थम्, मध्यममध्यममाचामाम्लम्, जघन्यमध्यममेकाशनकम् । विंशत्याख्यजघन्यापत्तौ जघन्योत्कृष्टमाचामाम्लम्, जघन्यमध्यममेकाशनकम्, जघन्यजघन्यं पुरिमार्द्धः । इति 'ग्रीष्मद्वितीयनवकदानतपांसि' । । लघुस्वपक्षे पञ्चदशाख्योत्कृष्टापत्तावुत्कृष्टोत्कृष्टं चतुर्थम्, उत्कृष्टमध्यममाचामाम्लम्, उत्कृष्टजघन्यमेकाशनकम् । दशाख्यमध्यमापत्तौ मध्यमोत्कृष्टमाचामाम्लम्, मध्यममध्यममेकाशनकम्, मध्यमजघन्यं पुरिमार्द्धः । पञ्चाख्यजघन्यापत्तो जघन्योत्कृष्टमेकाशनकम, जघन्यमध्यमं पुरिमार्द्धः, जघन्यजघन्य निर्विकृतिकमिति । 'ग्रीष्मतृतीयनवकदानतपांसि' ' इति ग्रीष्मसम्बन्धीनि सप्तविंशतिदानतपांसि लिखितानीत्यलं प्रसङ्गेन । साम्प्रतं गाथोत्तरार्द्धं व्याख्यायते-एवंविधापत्तिषु द्वादशमाद्यं तपः कर्तुमसहिष्णोरसमर्थस्य एकैकस्वतपसो हासः तावत्कार्यो यावन्नवस्वपि पङ्क्तिषु पर्यन्ते कोष्ठकगतमेकैकं चतुर्थादिनिर्विकृतिकान्तं तपः स्थितम् । ततस्तस्य तद्दीयत इत्यर्थ इति गाथार्थः ।। १३५।।। अथ तत्करणेऽप्यशक्तस्य पुनस्तथैव हासो भवतीति दर्शयति -
असहस्स तंपि हसइ सट्ठाणाउ दिज्ज परठाणं ।
इअ हिट्ठमुहे हासे निबिअं ठाइ सुद्धो वा ।।१३६ ।। व्याख्या-असहस्य तत्करणासमर्थस्य तदपि पङ्क्तिपर्यन्ते कोष्ठकगतमपि तपो हास्यते । ततश्चायमर्थःपूर्वं स्वस्थानतपो दीयते। वर्षासु वर्षाकालोक्तम्, शिशिरे शिशिरोक्तम्, ग्रीष्मे ग्रीष्मोक्तम् । तदपि कर्तुमक्षमस्य