________________
सड-जीयकप्पो
| ...९७... 'बारसमदसममट्ठम-छप्पणमासेसु तिविहदाणेणं । चउतेमासे दसमट्ठमछ? उक्कोसगाइ तिहा ।।१।। एमेवुक्कोसाई दुमासगुरुमासिए तिविह दाणं । अट्ठमछट्टचउत्थं नवविहमेयं तु गुरुपक्खे ।।२।। दसमं अट्ठमछटुं लहुमासुक्कोसगाइ तिह दाणं । अट्ठमछट्टचउत्थं उक्कोसाई अ तिह भिन्नं ।।३।। छट्टचउत्थायामं उक्कोसाईण दाण वीसाए । लहुपक्खंमि नवविहो एसो बीओ भवे नवगो ।।४।। अट्ठमछट्टचउत्थं एसुक्कोसाइ दाण पन्नरसे । छट्टचउत्थायामं दससु तिविहे य दाण भवे ।।५।। खवणायामेगासण तिविहुक्कोसाइ दाण पणगंमि । लहुसे स तइअ नवगो सत्तावीसे सवासासु' ।।६।। इति । अथ केयम पक्रान्ति म । अर्द्धस्याऽसमप्रविभागरूपस्य एकदेशस्य एकपदात्मकस्यापक्रमणंनिवर्त्तनं शेषस्य तु ब्यादिपदसङ्घातात्मकस्य एकदेशस्यानुवर्तनं यस्यां रचनायां सा समयपरिभाषयाऽर्द्धापक्रान्तिरुच्यते । यथा वर्षासु गुरुतमे उत्कृष्टतो द्वादशमम्, मध्यमतो दशमम्, जघन्यतोऽष्टमम् । एषां मध्यादेकदेशो द्वादशमलक्षणोऽपक्रामति, दशमाष्टमे गुरुतरं गच्छतः अग्रेतनं च षष्ठं मील्यते । ततश्च गुरुतरे उत्कृष्टतो दशमम्, मध्यमतोऽष्टमम्, जघन्यतः षष्ठम् । पुनरेषां मध्यादेकदेशो दशमलक्षणो निवत्तत, अष्टमषष्ठे गुरुकं गच्छतः अग्रेतनं च चतुर्थं मील्यते । ततश्च गुरुके उत्कृष्टतोऽष्टमम्, मध्यमतः षष्ठम्, जघन्यतश्चतुर्थमिति । यथा चेयमेकाशीतिके दानतपोयन्त्रके वर्षाद्यनवकेऽ पक्रान्तिर्दर्शिता । तथैव सर्वेष्वपि नवकेषु विलोकनीया । यदाह'सिसिरे दसमाईणं चारणभेएण सत्तवीसेणं । ठायइ पुरिमड्डंमि अड्ढक्कंतीइ तह चेव ।।१।। अट्ठमगाई गिम्हे चारणभेएण सत्तवीसेण । तह चेव अड्डक्कंती ठायइ नीबिइए नवरं' ।।२।। इत्युक्ता वर्षासूत्कृष्टाद्यापत्तिनवके सति दानतपसो द्वादशममादौ कृत्वा एकाशनान्ताश्चारणिकया सप्तविंशतिर्भेदा इति गाथार्थः ।। १३४।। सम्प्रति शिशिरे ग्रीष्मे च तानेव दानतपसः सप्तविंशतिभेदानतिदिशन्नाह -
दसमाई पुरिमंता सिसिरे २७ गिम्हिट्ठमाइ निविअंता २७ ।
असहि इक्किक्क हासो जा पंतिसु अंति इक्किक्कं ।।१३५ ।। व्याख्या-'इअ अड्डक्कंति सगवीसा' इति पदमत्राऽप्यनुवर्तते । ततोऽयमर्थः-इत्येवं पूर्वोक्तप्रकारेणा - पक्रान्त्या यथा वर्षासूत्कृष्टाद्यापत्तिनवके सति दानतपसो दशममादौ (द्वादशमादौ) कृत्वा एकाशनान्ताः सप्तविंशतिभेदाचारणिकया कथिताः तथा शिशिरेऽपि दशमादयः पुरिमान्ता कार्या:-दशममादौ कृत्वा पुरिमार्द्धान्ता इत्यर्थः । तथा ग्रीष्मेऽष्टमादयो निर्विकृतिकान्ताः सप्तविंशतिभेदाः कार्याः । यन्त्रकस्थापनातश्च ज्ञेया इति । वर्षाशिशिरग्रीष्माणां च सप्तविंशतित्रयमीलने एकाशीतिर्दानतपसो भेदा भवन्ति । अर्धपक्रान्तिश्चेयम् – 'अर्द्धस्यासम' इत्यादि प्राग्वत् । अत्र सूत्रानुपात्तान्यपि सौकर्यार्थं शिशिरग्रीष्मयोः सप्तविंशतिः सप्तविंशतिः दानतपांसि नामतो लिख्यन्ते । यथा-गुरुपक्षे षण्मासपञ्चमासाख्योत्कृष्टापत्तावुत्कृष्टोत्कृष्टं दशमम्, उत्कृष्टमध्यममष्टमम्, उत्कृष्टजघन्यं षष्ठम्।।