________________
सड्ड- जीयकप्पो 'गुरु-लहु-लहुसगपक्खे इक्किक्को नवविहो मुणेयवो । उक्कोसुक्कोसो वा उक्कोसो मज्झिमजहन्नो ।।१।। मझुक्कोसो मज्झिममझो तह होइ मज्झिमजहन्नो । इअ नेओ जहन्नो वि अ उक्कोसो मज्झिमजहन्नो ।।२।। गुरुपक्खे नव एए नव चेव य हुंति लहुयपक्खेवि । नव चेव लहुसपक्खे सत्तावीसं भवंतेए' ।।३।। इति गाथात्रयार्थः ।। १२९-३०-३१ ।। अर्थतेषु गुरु-लघु-लघुस्खलक्षणेषु त्रिषु पक्षेषु सप्तविंशतिविधं दानतपो व्यक्तीकरोति
तहिं बारस दसमट्ठम जिढे मज्झि दसमट्ठमा छटुं ।
अट्ठमछट्ठचउत्थं जहन्नतिगि दाण गुरुपक्खे ।।१३२।। व्याख्या-तत्र पक्षत्रये क्रमेण तपः प्रतिपाद्यते, यथा-इह गुरुपक्षे पाण्मासिकपञ्चमासिकाख्योत्कृष्टापत्तौ सत्यामुत्कृष्टोत्कृष्टं द्वादशं तपः, उत्कृष्टमध्यमं दशमम्, उत्कृष्टजघन्यमष्टमम् । चातुर्मासिकत्रिमासिकाख्यमध्यमापत्तौ मध्यमोत्कृष्टं दशमम् , मध्यममध्यममष्टमम् , मध्यमजघन्यं षष्ठम् । द्विमासिकगुरुमासाख्यजघन्यापत्तो जघन्योत्कृष्टमष्टमम्, जघन्यमध्यमं षष्ठम्, जघन्यजघन्यं चतुर्थम् । एवं गुरुपक्षे नवधा दानतपः प्रोक्तमिति गाथार्थः ।। १३२।। अथ लघुपक्षे नवधा दानतपः प्रतिपादयति
इह दसमट्ठमछट्ठा अट्ठमछट्ठा चउत्थया कमसो ।
छट्टचउत्थायामं लहुपक्खे दाण वासासु ।।१३३ ।। व्याख्या-लघुपक्षे लघुमासाख्योत्कृष्टापत्तावुत्कृष्टोत्कृष्टं दशमम्, उत्कृष्टमध्यममष्टमम्, उत्कृष्टजघन्यं षष्ठम्। भिन्नमासाख्यमध्यमापत्तौ मध्यमोत्कृष्टमष्टमम्, मध्यममध्यमं षष्ठम्, मध्यमजघन्यं चतुर्थम् । विंशत्याख्यजघन्यापत्तौ जघन्योत्कृष्टं षष्ठम्, जघन्यमध्यमं चतुर्थम्, जघन्यजघन्यमाचामाम्लम् । इत्यमुनाप्रकारेण लघुपक्षे क्रमेण दानतपो नवविधमुक्तम् । एतच्च दानतपो वर्षास्ववगन्तव्यम् । पूर्वगाथोक्तमपि अग्रेतनगाथोक्तमपि चेति गाथार्थः ।। १३३ ।। अथ लघुस्वपक्षे दानतपो नवविधं प्रतिपादयति -
अट्ठमछट्टचउत्थं छट्टचउत्थंबिलं लहुसपक्खे ।
तह खवणंबिल आसण इअ अड्डक्कंति सगवीसा ।।१३४।। व्याख्या-लघुस्वपक्षे पञ्चदशाख्योत्कृष्टापत्तावुत्कृष्टोत्कृष्टमष्टमम्, उत्कृष्टमध्यमं षष्ठम्, उत्कृष्टजघन्यं चतुर्थम् । दशकाख्यमध्यमापत्तौ मध्यमोत्कृष्टं षष्ठम्, मध्यममध्यमं चतुर्थम्, मध्यमजघन्यमाचामाम्लम् । पञ्चकाख्यजघन्यापत्तौ जघन्योत्कृष्टं चतुर्थम्, जघन्यमध्यममाचामाम्लम्, जघन्यजघन्यमेकाशनकम् । इत्येवमर्धपक्रान्त्या वर्षासु सप्तविंशतिधा दानतपः । यदाह