________________
सड-जीयकप्पो
..९५... व्याख्या-इदानीं प्रकृतगाथाक्षरार्थ:-गुरुः१ लघुः२ लघुखः३ लघुस्वशब्दश्चतुर्लघुकार्थः । स्वशब्दस्याल्पार्थकप्रत्ययार्थत्वादित्येते त्रयः पक्षाः पृथक् प्रत्येकं त्रिधा भवन्ति । त्रैविध्यं चैतेषां दर्शितमेवेति गाथार्थः ।।१२८।। अथ नवविधापत्तितपोव्यवहारं दर्शयति
गुरुलहु छप्पणमासा चउतिगमासा दुमासगुरुमासो । लहुमास भिन्न वीसं पनरस दस पण तिपक्खकमा ।।१२९ ।। उक्कोसमज्झहीण आवत्ति नव तिदाणकालतिगे । उक्कोसुक्कोसुक्कोसमज्झ
उक्कोसगजहन्ना ।।१३०।। मज्झुक्कोसा मज्झिममज्झिमगा तह य मज्झिमजहन्ना ।
जह उक्कोस जहन्नगमज्झा य जहन्नगजहन्ना ।।१३१।। व्याख्या-'तिपक्ख'' त्ति । प्राकृतत्वात् सप्तमीसुपो लोपात्तेषु त्रिषु पक्षेषु गुरुलघुलघुस्खलक्षणेषु एता आपत्तय उत्कृष्टमध्यमजघन्यरूपाः क्रमादवगन्तव्याः । तथाहि-गुरुपक्षे गुरुलघु पाण्मासिकपञ्चमासिकरूपा उत्कृष्टापत्तिः । अयमर्थ:-गुरुपक्षे उत्कृष्टापत्तौ गुरुभावेन षण्मासा लघुभावेन पञ्च मासाश्च भवन्तीति । एवमग्रेतनापत्तिद्वयेऽपि भावना कार्या । तथा गुरुपक्ष एव चतुर्मासिकत्रिमासिकरूपा मध्यमापत्तिः, द्विमासिकगुरुमासरूपा जघन्यापत्तिः । तथा उत्कृष्टापत्तौ लघुपक्षे लघुमासः सार्द्धसप्तविंशतिदिनरूपः उत्कृष्टापत्तिः। भिन्नमासः पञ्चविंशतिदिनानि मध्यमापत्तिः । विंशतिदिनानि जघन्यापत्तिः । तथा उत्कृष्टापत्तावेव लघुस्वपक्षे पञ्चदश दिनान्युत्कृष्टापत्तिः । दश दिनानि मध्यमापत्तिः । पञ्च दिनानि जघन्यापत्तिरित्येवं नवविधापत्तितपोरूपः श्रुतव्यवहारो दर्शितः । भणितं च'गुरुपक्खे उक्कोसो मज्झजहन्नो य एव लहुवि । एमेव य लहुसे वी इय एसो नवविहो होई ।।१।। गुरुपक्खे छम्मासो पणमासो चेव होइ उक्कोसो । मझो चउतिमासो दुमासगुरुमासग जहन्नो ।।२।। लहु-भिन्नमास-वीसा लहुपक्खोक्कोसमज्झिमजहन्ना । पनरसदसगं पणगं लहुसुक्कोसाइ तिविहो सो ।।३।। आवत्तितवो एसो नवभेओ वण्णिओ समासेण । अहुणा उ सत्तवीसो दाणतवो तस्सिमो होइ' ।।४।। तथा 'तिदाण' त्ति । तस्यापत्तितपसो नवविधस्य दानतपस्त्रिविधमुत्कृष्टमध्यमजघन्यलक्षणं सप्तविंशतिभेदं भवति । एकैकस्यामापत्तौ त्रीणि त्रीणि दानतपःस्थानानि भवन्तीति । तानि दानस्थानानि नवापत्तिभिर्गुणितानि सप्तविंशतिर्भवन्तीति भावः । 'कालतिग'' त्ति । तानि पुनः प्रत्येकं कालत्रिके वर्षाशिशिरग्रीष्मलक्षणे भवन्ति । अत्रायमर्थः सप्तविंशतिर्दानस्थानानि वर्षासु, सप्तविंशतिः शिशिरे, सप्तविंशतिर्णीष्मे च भवन्तीति सप्तविंशतिस्त्रिभिर्गुणिता एकाशीति:दा भवन्तीति । तेषां च सप्तविंशतेर्दानतपःस्थानानां नामान्याह-तत्र गुरुपक्ष एकोऽपि नवधा । तद्यथा-उत्कृष्टोत्कृष्टः उत्कृष्टमध्यमः उत्कृष्टजघन्यः, मध्यमोत्कृष्टः मध्यममध्यमः मध्यमजघन्यः, जघन्योत्कृष्टः जघन्यमध्यमः जघन्यजघन्यश्चेति । एवं लघुपक्षोऽपि नवधा, लघुस्वपक्षोऽपि चैवमेव नवधा सर्वमीलने सप्तविंशतिर्भेदा भवन्ति । भणितं च -