________________
सड्ढ- जीयकप्पो
| ...९४... | स्थाप्यमाने तिर्यगूधं च दश दश रेखा भवन्तीति । एतत्स्थापना च सकलभेदप्रतिपादनानन्तरं दर्शयिष्यते इति गाथार्थः ।।१२५।। तत्र पूर्व सामान्येन कालत्रयमाश्रित्य नवविधतपोदानश्रुतव्यवहारमेव दर्शयन्नाह -
उववास-छट्टअट्ठम जहन्न छट्टट्ठमा दसममज्झा ।
अट्ठमदसमदुवालस जिट्ट तिकाले तवो नवहा ।।१२६ ।। व्याख्या-अत्र विभक्तिलोपः प्राकृतत्वात्। ततस्त्रिकाले ग्रीष्मशिशिरवर्षालक्षणे कालत्रये उपवासादिभिर्जघन्यमध्यमोत्कृष्टभेदेन नवधा नवभेदं तपो भवति । तथाहि-ग्रीष्मशिशिरवर्षासु यथाक्रमं चतुर्थषष्ठाष्टमानि जघन्यानि । षष्ठाष्टमदशमानि मध्यमानि । अष्टमदशमद्वादशान्युत्कृष्टानि दीयन्ते । उक्तं च - 'गिम्हासु चउत्थं दिज्जा छट्टगं च हिमागमे । वासासु अट्ठमं दिज्जा तवो एस जहन्नगो ।।१।। गिम्हासु छट्टगं दिज्जा अट्ठमं च हिमागमे । वासासु दसमं दिज्जा एस मज्झिमगो तवो ।।२।। गिम्हासु अट्ठमं दिज्जा दसमं च हिमागमे । वासासु दुवालसमं एस उक्कोसओ तवो' ।।३।। एष नवविधतपोदानलक्षणः श्रुतव्यवहारोपदेश उच्यते इतिशेष इति गाथार्थः ।।१२६।। अथवा नवविधश्रुतव्यवहारोपदेशोऽयम् । तथैवाह -
निविय-पुरिमासणंबिल-इगदुतिचउपंचखवण नवह तवो ।
सुयववहारुवएसा आहेण विभागओ चेव ।। १२७ ।। व्याख्या-निर्विकृतिकम् १, पुरिमार्द्धः २, एकाशनम् ३, आचामाम्लम् १, एकक्षपणं चतुर्थम् २, द्वे क्षपणे षष्ठम् ३, त्रीणि क्षपणानि अष्टमम् १, चत्वारि क्षपणानि दशमम् २, पञ्च क्षपणानि द्वादशम् ३, श्रुतव्यवहारोपदेशात् श्रुतव्यवहारमाश्रित्य एवं प्रकारान्तरेण नवधा तपो भवति । अत्रापि विभक्तिलोपः प्राग्वत् । इदं च तपो द्विधा । ओघेन सामान्येन, विभागतो विशेषेण । चैवशब्दौ समुच्चये इति गाथार्थः ।। १२७।। तत्रौघतः प्रागुक्तमेव । विभागतः पुनस्तपःस्वरूपप्रतिपादनार्थं 'यथोद्देशं निर्देश' ' इति न्यायात् 'ति-नवे' त्यादिपूर्वगाथोपन्यस्तेषु पक्षत्रयादिषु पूर्वं पक्षत्रयं स्पष्टयन्नाह -
गुरु लहु लहुस तिपक्खा पिहो तिहाऽतिगुरु गुरुतरो गुरुओ ।
लहुतम लहुतर लहुओ लहुसतमो लहुसतर लहुसो ।।१२८।। व्याख्या-एष नवविधतपोव्यवहारः सङ्कपतस्त्रिधा उत्कृष्टो मध्यमो जघन्यश्च । तत्र गुरुतम-गुरुतर-गुरुरूपभेदत्रयात्मको गुरुपक्ष उत्कृष्टः, लघुतम-लघुतर-लघु-रूपभेदत्रयात्मको लघुपक्षो मध्यमः, लघुस्वतम-लघुस्खतर-लघुस्वाख्यत्रिभेदो लघुस्वपक्षो जघन्य इति । यदाह'नवविहववहारे सो संखेवेणं तिहा मुणेयवो । उक्कोसो मज्झिमगो जहन्नगो चेव तिविहो सो ।।१।। उक्कोसे गुरुपक्खो लहुपक्खो मज्झिमो मुणेयवो । लहुसपक्खो जहन्नो तिविगप्पो एस नायबो' ।।२।।