________________
__ सड- जीयकप्पो
[...९३... परिणामः तस्य जीतोक्ताद्धीनमपि दद्यात् । यः पुनर्मध्यस्थपरिणामः तस्य जीतोक्तमात्रमेव दद्यादिति । तथा बहुकेऽपि मूलानवस्थाप्ययोग्येऽपि पापे कृते श्रीमहावीरस्यतीर्थे षण्मासिकमेव प्रायश्चित्तं दीयते नाधिकमिति । एतच्च प्रायश्चित्तं श्रावकाणां श्राविकाणां च शक्त्यादिकं विचार्य दातव्यमित्यर्थः ।। १२२।। अथोक्तप्रायश्चित्तस्य भेदानाह -
दाण-तव-कालपच्छित्तमिह तिहा गुरुलहुत्ति पुण दुविहं ।
गुरुमवि संतरदाणे लहु निरंतरि लहुवि गुरु ।।१२३ ।। व्याख्या-दानतपःकालभेदात् प्रायश्चित्तमिह जीते विधा । दानप्रायश्चित्तं तपःप्रायश्चित्तं कालप्रायश्चित्तं चेति। एकैकं गुरुकं लघुकं च भवतीति पुनरपि द्विविधम् । तत्र दानप्रायश्चित्तद्वैविध्यमाह-गुर्वपि प्रायश्चित्तं सान्तरदाने अन्तरेण सह दीयमानं लघु भवति-दानमाश्रित्य लघुकमुच्यत इत्यर्थः । तथा निरन्तरे तु दाने लवपि प्रायश्चित्तं गुरुकं भवति-दानमाश्रित्य दुष्करत्वाद् गुरुकमुच्यत इत्यर्थ इति गाथार्थः ।।१२३।। उक्तं दानप्रायश्चित्तद्वैविध्यम्, सम्प्रति तपःकालप्रायश्चित्तद्वैविध्यं विवरीषुराह -
छटुंतं तव लहुमट्ठमाइ तव गुरु जमुज्झई गिम्हे ।
तं लहुमवि कालगुरु गुरुवि लहुअं सिसिरवासे ।।१२४।। व्याख्या-भिन्नादिकं षष्ठान्तं षष्ठं यावद्दीयमानं प्रायश्चित्तं तपो लघु भण्यते, अष्टमादिकं तदेव दीयमानं तपो गुरुर्भण्यते-षष्ठान्तं तपो दीयमानं तप आश्रित्य लघुकमष्टमान्तं तपो दीयमानं तप आश्रित्य गुरुकमुच्यते इत्यर्थः । तथा यद् ग्रीष्मे निदाघकाले ऊह्यते तद् दानतपोभ्यां लघ्वपि कालगुरु, कालस्य दारुणत्वात् कालमाश्रित्य गुरुकमुच्यते । तथा दानतपोभेदाभ्यां गुरुकमपि लघुकं भवति, यत् शिशिरे वर्षासु चोह्यते, कालस्य स्निग्धत्वादिति भाव इति गाथार्थः ।। १२४।। साम्प्रतं जीतव्यवहारयन्त्रकस्वरूपमभिधित्सुरिमां द्वारभूतां गाथामाह -
ति-नव-सगवीस-इगसी पक्खे-आवत्ति-दाण-कालतिगे ।
नवतवसुअववहारे जते दसरेह तिरिउडे ।।१२५ ।। व्याख्या-अत्रैष नवविधतपोदानलक्षणः श्रुतव्यवहारस्त्रिभिनवभिः सप्तविंशतिभिरेकाशीतिभिश्च यथाक्रम पक्षे आपत्तौ दाने कालत्रिके भवति । अयमर्थः-तत्र सङ्क्षपतः तावदयं त्रिभेदः पक्षत्रयभेदात्, आपत्तिभेदतः पुनर्नवभेदः, दानतपोभेदतस्तु सप्तविंशतिभेदः, कालत्रिकविशेषेण पुनरेकाशीतिभेदश्च भवति । एतेषां सर्वेषामपि भेदानां स्वरूपं ग्रन्थकारः स्वयमेव पुरस्ताद् व्यक्तीकरिष्यति एवंविधभेदभिन्नश्च नवविधतपोदानलक्षणः श्रुतव्यवहारो यन्त्रके स्थापितः सुखावसेयो भवतीत्यतो यन्त्रस्थापनामतिदिशति । यन्त्रे