________________
...९९...
ड्ड - जयकप्पो ततः स्वस्थानात्परस्थानं परस्थानतपः । वर्षास्वपि शिशिरोक्तम्, शिशिरेऽपि च ग्रीष्मोक्तं तपो दीयते । इत्येवमधोमुखे हासे स्थाने स्थाने वर्षाशिशिरग्रीष्मरूपे ह्रासयद्भिः तावन्नेयं यावन्निर्विकृतिकमात्रमेव देयतया स्थितम् । शुद्धो वा यः पुनर्निर्विकृतिकमात्रमपि तपः : कर्त्तुमशक्तः स मिथ्यादुष्कृतेनैव शुद्ध्यतीत्यर्थ इति गाथार्थः ।। १३६।।
एष नवविधो व्यवहारः । अस्य च व्यवहारस्य व्यक्तीकरणाय यन्त्रकस्थापना । तत्र चोत्कृष्टादीनि जघन्यान्तानि तपांसि स्थाप्यन्ते । यथा सुखेन ह्रासः कर्त्तुं शक्यत इति । सूत्रे तु यथा कथञ्चिदुक्तानि विचित्रत्वात् सूत्ररचनाया इति । इति श्रुतव्यवहारयन्त्रकस्वरूपं तत्स्थापना चेयम् - सम्प्रति निर्विकृतिकादीनां क्षपणत्रयान्तानां सञ्ज्ञानामान्याह –
पण तव कल्लाण निवी - पुरिमासण - अंबिलेगदुतिखमणा ।
भिन्नं लहु गुरु चउलहु चउगुरु छल्लहु छगुरुमासा ।।१३७।। व्याख्या–पञ्च तपांसि निर्विकृतिकपुरिमार्थैकाशनाचामाम्लोपवासरूपाणि समुदितानि पञ्च कल्याणमुच्यते। किञ्चिदूनोपवासद्वयेनैकं कल्याणकमित्यर्थः । तद्विगुणवृद्ध्या द्विकल्याणकादीन्यप्यवसेयानि । तथा निर्विकृतिकपुरिमार्द्धेकाशनाचामाम्लैकद्वित्रिक्षपणानि क्रमेण भिन्नलघुमासादिसञ्ज्ञानि भवन्ति । अयमर्थःनिर्विकृतिकस्य भिन्नमासः १, पुरिमार्द्धस्य लघुमासः २, एकाशनकस्य गुरुमासः ३, आचामाम्लस्य चतुर्लघुमासः ४, एक क्षपणस्य चतुर्थस्य चतुर्गुरुमासः ५, क्षपणद्वयस्य षष्ठस्य षड् लघुमासः ६, क्षपणत्रयस्याष्टमस्य षड्गुरुमासः ७ इति सञ्ज्ञानामानि यथाक्रमं जीतपरिभाषयोच्यन्त इति गाथार्थः ।। १३७।। पुनस्तेषामेव क्रमेण सञ्ज्ञान्तराण्याह
इगचउछ सुन्न लहुगुरु रित्तभरिय केवलीसरा अंका ।
उछलहू एक फ्र गुरू सागरा भिन्नि पणगन्ना ।। १३८ ।।
व्याख्या - एकं चत्वारि षट् च शून्यानि स्थाप्यन्ते । तानि लघुगुरुभेदेन द्विधा भवन्तीति रिक्तानि भृतानि च क्रियन्ते । तत्र यानि मध्ये रिक्तानि शून्यानि तानि क्रमेण लघुचतुर्लघुषड्लघून्युच्यन्ते । यानि पुनर्मध्ये भृतानि पूरितानि क्रमेण गुरुचतुर्गुरुषड्गुरूण्युच्यन्ते । अथवा - केवलाः स्वरसंयोगरहिताः ईस्वराः ईकारः स्वरो येषु ते ईस्वराः ईकारस्वरसहिता इत्यर्थः । ५ अङ्का एकक-चतुष्क - षट्करूपा भवन्ति । अयमर्थःयदि ते एककचतुष्कषट्करूपा अङ्काः केवलाः १ । ४ । ६ । तदा क्रमेण लघुचतुर्लघुषड्लघव उच्यन्ते । अथ ईस्वरयुक्ताः १ । ४ । ६ । यदि भवन्ति तदा गुरुचतुर्गुरुषड्गुरव उच्यन्ते । तथा चतुर्लघुषड्लघू ण्क–फ्र शब्दाभ्यां क्रमेणोच्येते । तावेव गुरू साकारौ आकारस्वरयुक्तावित्यर्थः । ण्का चतुर्गुरुः, फ्रा षड्गुरुरित्यर्थः । भिन्ने पुनः पञ्चको ५ नाशब्दश्च सञ्ज्ञान्तरद्वयं भवतीति शेषः । अयं च गाथाद्वयार्थो यन्त्रकस्थापनातः सम्यगवसीयते । तस्य स्थापना चेयम् इति गाथार्थ: ।। १३८ ।।
-