________________
जीवितस्य परिवन्दनाद्यर्थं कर्म [श्रु०१। अ०१। उ०१॥ सू०७] अमुमेवार्थं नियुक्तिकृद् आह[नि०] तत्थ अकारि करिस्सं ति बंधचिंता कया पुणो होइ ।
सहसम्मुइया जाणइ कोई पुण हेउजुत्तीए ॥६७॥ दारं ॥ तत्थेत्यादि । तत्र कर्मणि क्रियाविशेषे, किम्भूत इत्याह- अकारि करिस्सं ति । अकारि इति कृतवान्, करिस्सं ति करिष्यामीति । अनेन अतीता-ऽनागतोपादानेन तन्मध्यवर्तिनो वर्तमानस्य कारिता-ऽनुमत्योः च उपसङ्ग्रहाद् नवापि भेदा आत्मपरिणामत्वेन योगरूपा उपात्ता दृष्टव्याः । तत्र अनेन आत्मपरिणामरूपेण क्रियाविशेषण बन्धचिन्ता कृता भवति-बन्धस्य उपादानं उपात्तं भवति, "कर्म योगनिमित्तं बध्यते" [ ] इति वचनात् । एतच्च कश्चित् जानाति आत्मना सह या सन्मतिः स्वमतिः वा अवधि-मन:पर्याय-केवल-जातिस्मरणरूपा, तया जानाति कश्चित् च पेक्ष-धर्मा-ऽन्वयव्यतिरेकलक्षणया हेतुयुक्त्या इति ॥६७॥
अथ किमर्थमसौ कटुकविपाकेषु कर्माश्रर्वहेतुभूतेषु क्रियाविशेषेषु प्रवर्तते ? इत्याह
इमस्स चेव जीवियस्स परिवंदण-माणण-पूयणाए जाती-मरणमोयणाए दुक्ख-पडिघातहेतुं ॥७॥
इमस्सेत्यादि । तत्र जीवितमिति जीवन्ति अनेन आयुःकर्मणा इति जीवितं प्राणधारणम् । एतच्च प्रतिप्राणिस्वसंविदितमिति कृत्वा प्रत्यक्षासन्नवाचिना इदमा निर्दिशति । चशब्दो वक्ष्यमाणजात्यादिसमुच्चयार्थः, एवकारोऽवधारणे, अस्यैव जीवितस्य अर्थे परिफल्गुसारस्य तडिल्लताविलसितचञ्चलस्य बह्वपायस्य दीर्घसुखार्थं क्रियासु प्रवर्तते, तथा हि-'जीविष्यामि अहं अरोगः, सुखेन भोगान् भोक्ष्ये'; ततो व्याध्यपनयनार्थं स्नेहपानलावकपिशितभक्षणादिषु क्रियासु प्रवर्तते तथा अल्पसुखकृते अभिमानग्रहाकुलितचेता बह्वारम्भपरिग्रहाद् बह्वशुभं कर्म आदत्ते, उक्तं च
"द्वे वाससी प्रवरयोषिदपायशुद्धा, शय्याऽऽसनं करिवरस्तुरगो रथो वा । काले भिषग् नियमिताशन-पानवृत्तिः, राज्ञः पराक्यमिव सर्वमवैहि शेषम् ॥ तुष्ट्यर्थमन्नमिह यत् प्रणिधिप्रयोग-सन्त्रासदोषकलुषो नृपतिस्तु भुङ्क्ते । यद् निर्भयः प्रशमसौख्यरतिश्च भैक्ष्यम्, तत्स्वादुतां भृशमुपैति न पार्थिवान्नम्॥ ___टि० १. ०सम्मइया ठ । ०सम्मुयया झ ॥ २. पक्षद्वयधर्मा० ग || ३. ०वभूते० घ च ॥ ४. ०वत्यने० च ॥ ५. ०मा दिशति च ॥ ६ ०तव्यस्या० क ॥ ७. ०ल्पस्य सुखस्य कृ० ख घ ङ । ०ल्पसुखस्य कृ० ग ॥ ८. ०मानाग्र० क ॥ ९. ०शुभक० ख ॥ १०. ०पानमात्रा । रा० ग घ ङ । ०पानवृत्तिं । रा० च ॥ ११. ०योगैः स० ग ॥ १२. ०रतश्च ग ॥
४७