________________
[श्रु०१। अ०१। उ०१। सू०७] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
भृत्येषु मन्त्रिषु सुतेषु मनोरमेषु, कान्तासु वा मधुमदाङ्कुरितेक्षणासु । विश्रम्भमेति न कदाचिदपि क्षितीशः, सर्वाभिशङ्कितमतेः कतरत् तु सौख्यम् ?" ॥
[ ] तदेवं अनवबुद्धतरुणकिशलयपलाशचञ्चलजीवितरतयः कर्माश्रवेषु जीवितोपमर्दादिरूपेषु प्रवर्तन्ते । तेथा अस्यैव जीवितस्य परिवन्दन-मानन-पूजनार्थं हिंसादिषु प्रवर्तन्ते । तत्र परिवन्दनं संस्तवः प्रशंसा, तदर्थं आचेष्टते, तथा हि-'अहं मयूरादिपिशिताशनाद् बली तेजसा देदीप्यमानो देवकुमार इव लोकानां प्रशंसास्पदं भविष्यामी'ति । माननम्- अभ्युत्थाना-ऽऽसनदाना-ऽञ्जलिप्रग्रहादिरूपम्, तदर्थं च आचेष्टमानः कर्म आचिनोति । तथा पूजनं द्रविण-वस्त्रा-ऽन्न-पान-सत्कारप्रणामसेवाविशेषरूपम्, तदर्थं च प्रवर्तमानः क्रियासु कर्माश्रवैः आत्मानं सम्भावयति, तथा हि-'वीरभोग्या वसुन्धरा" इति मत्वा पराक्रमते, दण्डभयात् च सर्वाः प्रजा बिभ्यतीति दण्डयति इत्येवं राज्ञाम्, अन्येषामपि यथासम्भवं आयोजनीयम् । अत्र च वन्दनादीनां द्वन्द्वसमासं कृत्वा तादh चतुर्थी विधेया । परिवन्दन-मानन-पूजनाय जीवितस्य कर्माश्रवेषु प्रवर्तन्त इति समुदायार्थः ।
न केवलं परिवन्दनाद्यर्थमेव कर्म आदत्ते, अन्यार्थमपि आदत्त इति दर्शयतिजातिश्च मरणं च मोचनं च-जाति-मरण-मोचनमिति समाहारद्वन्द्वात् तादर्थ्य चतुर्थी, एतदर्थं च क्रि यासु प्रवर्तमानाः प्राणिनः कर्म आदते । तंत्र जात्यर्थं क्रौञ्चारिवन्दनादिकाः क्रिया विधत्ते, तथा यान् यान् कामान् ब्राह्मणादिभ्यो ददाति तान् तान् अन्यजन्मनि पुनः जातो भोक्ष्यते, तथा मनुना अप्युक्तम्
"वारिदस्तृप्तिमाप्नोति, सुखमक्षयमन्नदः ।
तिलप्रदः प्रजामिष्टामायुष्कमभयप्रदः ॥" [ मनुस्मृ०४।२२९] अत्र च एकमेव सुभाषितं अभयप्रदानमिति तुषमध्ये कणिकावदिति । एवमादिकुमार्गोपदेशाद् हिंसादौ प्रवृत्तिं विदधाति । तथा मरणार्थमपि पितृपिण्डदानादिषु क्रियासु प्रवर्तते, यदि वा मम अनेन सम्बन्धी व्यापादितः तस्य वैरनिर्यातनार्थं वध-बन्धादौ प्रवर्तते,
टि० १.०मनुबद्धत० क । २. ०तथास्यापि जी० ख ॥ ३. इव प्रशंसास्पदं लोकानां भवि० ख . ॥ ४. ०ति । तथा मान० ख ॥ ५. ०नं पूजा द्रवि० ख ॥ ६. द्वन्द्वं स० ख ।। ७. ०षु वर्त० क ।। ८. वर्तत । ग ङ विना ॥ ९. च प्राणिनः क्रियासु प्रवर्तमानाः कर्मा० कप्रत्या विना ॥ १०. तत्र इति नास्ति खपुस्तके । ११. ०ञ्चादिव० ग ।। १२. ब्राह्मणेभ्यो च ॥ १३. ०पि पिण्ड० ख ॥ १४. दिक्रिया० ङ॥
__ वि०टि० + स्वामिकार्तिकः ॥ © 'आयुष्कमभयप्रदः' इति पादः अधुना मनुस्मृतौ २३२तमगाथायां उपलभ्यते, न तु २२९तमगाथायाम् ॥
४८