________________
क्रियाविशेषपरिमाणनिश्चयः [श्रु०१। अ०१। उ०१। सू०८] यदि वा मरणनिवृत्त्यर्थं आत्मनो दुर्गाधुपयाचितं अजादिना विधत्ते यशोधर इव पिष्टमयकुक्कुटेन । तथा मोक्षाय अज्ञानावृतचेतसः पञ्चाग्नितपो अनुष्ठानादिषु प्राण्युपमर्दकारिषु प्रवर्तमानाः कर्म आददते, यदि वा जाति-मरणयोः विमोचनाय हिंसादिकाः क्रियाः कुर्वन्ति ।
जाइ-मरण-भोयणाएं त्ति वा पाठान्तरम् । तत्र भोजनार्थं कृष्यादिकर्मसु प्रवर्तमाना वसुधा-जल-ज्वलन-पवन-वनस्पति-द्वि-त्रि-चतुः-पञ्चेन्द्रियव्यापत्तये व्याप्रियन्त इति ।
तथा दुःखप्रतिघातं उररीकृत्य आत्मपरित्राणार्थं आरम्भं आसेवन्ते, तथा हिव्याधिवेदनार्ता लावकपिशित-मदिरादि आसेवन्ते, तथा वनस्पतिमूल-त्वक्-पत्रनिर्यासादिसिद्धशतपाकादितैलार्थं अग्न्यादिसमारम्भेण पापं कुर्वन्ति स्वतः, कारयन्ति अन्यैः, कुर्वतो अन्यान् समनुजानत इति एवं अतीता-ऽनागतकालयोरपि मनो-वाक्काययोगैः कर्मादानं विदधतीति आयोजनीयम् । तथा दुःखप्रतिघातार्थमेव सुखोत्पत्त्यर्थं च कलत्र-पुत्र-गृहोपस्करादि आददते, तल्लाभ-पालनार्थं च तासु तासु क्रियासु प्रवर्तमानाः पापकर्म आसेवन्ते इति, उक्तं च
"आदौ प्रतिष्ठाऽधिगमे प्रयासो दारेषु पश्चाद् गृहिणः सुतेषु । कर्तुं पुनस्तेषु गुणप्रकर्षं चेष्टा तदुच्चैःपदलङ्घनाय ॥' [ ]
तदेवम्भूतैः क्रियाविशेषैः कर्म उपादाय नानादिक्षु अनुसञ्चरन्ति, अनेकरूपासु च योनिषु सन्धावन्ति, विरूपरूपांश्च स्पर्शान् प्रतिसंवेदयन्ति इत्येतद् क्रियाविशेषनिवृत्तिः विधेया ।।७।। एतावन्त ऐव क्रियाविशेषा इति दर्शयितुमाह[सू०] एतावंति सव्वावंति लोगंसि कम्मसमारंभा परिजाणियव्वा भवंति ॥८॥
एतावंतीत्यादि । एयावंती सव्वावंती इति एतौ शब्दौ मागधदेशीभाषाप्रसिद्ध्या एतावन्तः सर्वेऽपि इति एतत्पर्यायौ । एतावन्त एव सर्वस्मिन् लोके=धर्माऽधर्मास्तिकायावच्छिन्ने नभ:खण्डे, ये पूर्वं प्रतिपादिताः कर्मसमारम्भाः क्रियाविशेषाः, न एतेभ्योऽधिकाः केचन सन्तीति एवं परिज्ञातव्या भवन्ति, सर्वेषां पूर्वत्रोपादानादिति भावः । तथा हि- आत्म-परोभयैहिका-ऽऽमुष्मिका-ऽतीता-ऽनागत-वर्तमानकाल-कृत-कारिता
टि० १. ०ना बलिं वि० क-खप्रतिभ्यामृते ॥ २. मोक्षार्थमज्ञा० ख । मुक्त्यर्थमज्ञा० ग घ ङ च ॥ ३. ०ना हिं० ख ॥ ४. कुर्वते कप्रतेविना ।। ५. ०ए इति वा ख ।। ६. कुर्वते ख ॥ ७. ०कायैः कर्मा० क ॥ ८. ०पस्कारा० ग ङ॥ ९. ०न् संवे० क ॥ १०. ०न्ति । एवं ज्ञात्वा ख ॥ ११. एव च क्रि० ख-घप्रतिभ्यामृते ॥ १२. एयावंती सव्वावंतीत्यादि एतौ क ॥ १३. ०सिद्धौ ए० ग ॥
वि०टि०"यशोधर इव इति समरादित्यकथायां यशोधरो राजा" जै०वि०प० । क "सिद्ध इति सिद्धार्थं कृतम्" जै०वि०प० ॥
४९