SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ [श्रु०१ । अ०१ । उ०१ । सू०९] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् ऽनुमतिभिः आरम्भाः क्रियन्ते, ते च सर्वेऽपि प्रागुपात्ता यथासम्भवं आयोज्या इति ॥८॥ एवं सामान्येन जीवास्तित्वं प्रसाध्य तदुपमर्दकारिणां च क्रियाविशेषाणां बन्धहेतुत्वं प्रदर्श्य उपसंहारद्वारेण विरतिं प्रतिपादयन्नाह [सू०] जस्सेते लोगंसि कम्मसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे त्ति बेमि ॥९॥ जस्सेत्यादि । भगवान् सुमस्तवस्तुवेदी केवलज्ञानेन साक्षाद् उपलभ्य एवमाहयस्य मुमुक्षोः, एते पूर्वोक्ताः, कर्मसमारम्भाः = क्रियाविशेषाः, कर्मणो वा ज्ञानावरणीयाद्यष्टप्रकारस्य समारम्भाः - उपादानहेतवः, ते च क्रियाविशेषा एव, परिः समन्ताद्, ज्ञाता:- परिच्छिन्नाः कर्मबन्धहेतुत्वेन भवन्ति, हुः अवधारणे, मनुते मन्यते वा जगतः त्रिकालावस्थां इति मुनिः, स एव मुनिः ज्ञपरिज्ञया परिज्ञातकर्मा प्रत्याख्यानपरिज्ञया च प्रत्याख्यातकर्मबन्धहेतुभूतैसमस्तमनो - वाक्- कायव्यापार इति । अनेन च मोक्षाङ्गभूते ज्ञान-क्रिये उपात्ते भवतः, न हि आभ्यां विना मोक्षो भवति, यत उक्तम्–“ज्ञान-क्रियाभ्यां मोक्षः" इति । इतिशब्दः एतावान् अयं आत्मपदार्थविचारः कैर्मबन्धहेतुविचारश्च सकलोद्देशकेन परिसमापित इति प्रदर्शकः । यदि वा इति एतद् अहं ब्रवीमिं यत् प्रागुक्तं यच्च वक्ष्ये तत् सर्वं भगवदन्तिके साक्षात् श्रुत्वा इति ॥९॥ ॥ प्रथमोद्देशकः समाप्तः ॥ ०१. ते सर्वे ।। २. ०णां कर्मबन्ध० ख ॥। ३. कर्मारम्भाः क ॥। ४. ० नाद्यावर० घ च ॥ ५. ० तमनो० क ॥ ६. कर्मसम्बन्ध० ख ॥ ७ इति । यदि ख ॥। ८. ०मि इति यत् क । ०मि यच्च प्रा० घ ।। ९. शस्त्रपरिज्ञायां प्रथमोद्देशकः समाप्त इति घ च । ०शक उक्तः ॥ ग ङ ॥ १०. समाप्त इति कपुस्तके नास्ति ॥ ५० वि०टि० तुलना - नाण-किरियाहिं मोक्खो [ विशेषाव० भा०३ ] ॥
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy