________________
॥ द्वितीयः पृथिव्युद्देशकः ॥ उक्तः प्रथमोद्देशकः । साम्प्रतं द्वितीयः प्रस्तूयते । अस्य च अयं अभिसम्बन्धःप्रथमोद्देशके सामान्येन जीवास्तित्वं प्रसाधितम्; इदानीं तस्य एव एकेन्द्रियादिपृथिव्याद्यस्तित्वप्रतिपिपादयिषया आह । यदि वा प्राक् परिज्ञातकर्मत्वं मुनित्वकारणं उपादेशि, यः पुनः अपरिज्ञातकर्मत्वाद् मुनिः न भवति विरतिं न प्रतिपद्यते स पृथिव्यादिषु बम्भ्रमीति । अथ क एते पृथिव्यादयः ? इत्यतः तद्विशेषास्तित्वज्ञापनार्थं इदं उपक्रम्यत इति । अनेन सम्बन्धेन आयातस्य अस्य उद्देशकस्य चत्वारि अनुयोगद्वाराणि वाच्यानि यावत् नामनिष्पन्ने निक्षेपे पृथिव्युद्देशक इति । तत्र उद्देशकस्य निक्षेपादिः अन्यत्र प्रतिपादितत्वाद् नेह प्रदर्श्यते । पृथिव्याः तु यद् निक्षेपादि सम्भवति तद् नियुक्तिकृद् दर्शयितुमाह[नि०] पुढवीए निक्खेवो परूवणा लक्खणं परीमाणं ।
उवभोगो सत्थं वेयणा य वहणा णिवित्ती य ॥८॥
पुढवीए इत्यादि । प्राग् जीवोद्देशके जीवस्य प्ररूपणा किं न कृता ? इति, एतच्च न आशङ्कनीयम्, यतो जीवसामान्यस्य विशेषाधारत्वात्, विशेषस्य च पृथिव्यादिरूपत्वात् सामान्यजीवस्य च उपभोगादेः असम्भवात् पृथिव्यादिचर्चयैव तस्य चिन्तितत्वादिति ।
तत्र पृथिव्या नामादिनिक्षेपो वक्तव्यः । प्ररूपणा सूक्ष्म-बादरादिभेदा । लक्षणं साकारा-ऽनाकारोपयोग-काययोगादिकम् । परिमाणं संवर्तितलोकप्रतरासङ्ख्येयभागमात्रादिकम् । उपभोगः शयना-ऽऽसन-चङ्क्रमणादिकः । शस्त्रं स्नेहा-ऽम्ल-क्षारादि । वेदना स्वशरीराव्यक्तचेतनानुरूपा सुख-दुःखानुभवस्वभावा । वधः कृत-कारिताऽनुमतिभिः उपमर्दनादिकः । निवृत्तिः अप्रमत्तस्य मनो-वाक्-कायगुप्त्या अनुपमर्दादिका इति समासार्थः ॥६८॥
व्यासार्थं तु नियुक्तिकृद् यथाक्रममाह[नि०] णामं ठवणा पुढवी य दव्वपुढवी य भावपुढवी य ।
एसो खलु पुढवीए निक्खेवो चउव्विहो होइ ॥६९॥
टि० १. तस्य कप्रतिमृते ॥ २. अनेनाभिसम्ब० क-खप्रती ऋते ॥ ३. ०णि भवन्ति या० क ॥ ४. ०पादेरन्य० खपुस्तकं विना ॥ ५. णियत्ती ञ ॥ ६. ०वीओ इ० ख । ०वीएत्यादि ङ च ॥ ७. ०स्य चर्चितत्वा० ख ॥ ८. छआदर्श विना सर्वास्वपि प्रतिषु य इति नास्ति ।