________________
[श्रु०१ | अ०१ । उ०२ । नि०७०]
वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
नाममित्यादि । स्पष्टा ॥ ६९ ॥ नाम - स्थापने क्षुण्णत्वाद् अनादृत्य आह
दव्वं सरीरभविओ भावेण य होइ पुढविजीवो ई
I
[नि० ]
जो पुढविनामगोयं कम्मं वेतेति सो जीवो ॥७०॥ दारं ॥ दव्वमित्यादि । तत्र द्रव्यपृथिवी आगमतो नोआगमतश्चे । तत्र चागमतो ज्ञाता अनुपयुक्तः, नोआगमतस्तु पृथिवीपदार्थज्ञस्य शरीरं जीवाऽपेतम्, तथा पृथिवीपदार्थज्ञत्वेन भव्यः बालादिः, ताभ्यां विनिर्मुक्तो द्रव्यपृथिवीजीवः एकभविको बद्धायुष्को अभिमुखनामगोत्रश्च । भावपृथिवीजीवः पुनः यः पृथिवीनामादिकम् उदीर्णं वेदयति ॥७०॥ गतं निक्षेपद्वारम् । साम्प्रतं प्ररूपणाद्वारम्—
[नि०]
दुविहाये पुढविजीवा सुहुमा तह बायरा य लोगम्मि । सुमा य सव्वलोए दो चेव य बायरविहाणा ॥ ७१ ॥
दुविहेत्यादि । पृथिवीजीवा द्विविधाः - सूक्ष्मा बादराश्च । सूक्ष्मनामकर्मोदयात् सूक्ष्माः, बादरनामकर्मोदयात् तु बादराः । कर्मोदयजनिते एवैषां सूक्ष्म - बादरत्वे, न तु आपेक्षिके बदरा-ऽऽमलकयोरिव । तत्र सूक्ष्माः समुद्गर्कपर्याप्तप्रक्षिप्तगन्धावयववत् सर्वलोकव्यापिनः । बादरास्तु मूलभेदाद् द्विधा इति ॥७१॥ आह—
[नि० ]
दुविहा बायरपुढवी समासओ सण्हपुढवि खरपुढवी । सण्हा य पंचवण्णा खरा य छत्तीसइविहाणा ॥७२॥
दुविहा इत्यादि । समासतः सङ्क्षेपाद् द्विविधा बादरपृथिवी–श्लक्ष्णबादरपृथिवी खरबादरपृथिवी च । तत्र श्लक्ष्णबादरपृथिवी कृष्ण - नील- लोहित-पीत-शुक्लभेदात् पञ्चधा । इह च गुणभेदाद् गुणिभेदो अभ्युपगन्तव्यः । खरबादरपृथिव्याः तु अन्येऽपि
टि० १. य क । २. ०श्च । आगमतो ज्ञाता तत्रनुप० खऋते ॥ ३. वियुक्तो च ॥ ४. ०र्मोदयं वे० कखपुस्तके विना ॥ ५. उठ ।। ६. ०कपर्याप्तिप्र० ख च । ०कप्रक्षि० ग घ । ७. ०ण्णा अवरा छत्ती० ठ |
वि०टि०. = श्रीमति प्रज्ञापनोपाङ्गे श्लक्ष्णबादरपृथिवीकायिकाः सप्तप्रकारा निरूपिताः, तद्यथा - " से किं तं सण्हबायरपुढविकाइया ? सण्हबायरपुढविकाइया सत्तविहा पन्नत्ता, तं जहा - किण्हमत्तिया १ नीलमत्तिया २ लोहियमत्तिया ३ हालिद्दमत्तिया ४ सुक्किलमत्तिया ५ पंडुमत्तिया ६ पणगमत्तिया ७ ॥ से त्तं सण्हबादरपुढविकाइया ||" (प्रज्ञा० प० २६ सू० १४) । तथोत्तराध्ययनेष्वपि सप्तैव प्रकाराः समाख्याताः, तद्यथा - " सण्हा सत्तविहा तहिं ॥ ७१ ॥ किण्हा नीला य रुहिरा य, हालिद्दा सुक्किला तहा पंडु-पणगमट्टिया.... ।। ७२ ।। षट्त्रिंशत्तमे जीवाजीवविभक्त्यभिधानेऽध्ययने च ॥