________________
[श्रु०१ । अ०१ । उ०१ । सू०७ ]
वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
दुःखप्रतिक्रियार्थं सुखाभिलाषाच्च पुनरपि तु जीवः । प्राणिवधादीन् दोषानधितिष्ठति मोहसम्पन्नः ॥ बध्नाति ततो बहुविधमन्यत् पुनरपि नवं सुबहु कर्म । तेनाथ पच्यते पुनरग्नेरग्नि प्रविश्येव ॥ एवं कर्माणि पुनः पुनः स बध्नंस्तथैव मुञ्चंश्च । सुखकामो बहुदुःखं संसारमनादिकं भ्रमति ॥ एवं भ्रमतः संसारसागरे दुर्लभं मनुष्यत्वम् । संसारमहत्त्वा-ऽधार्मिकत्व - दुष्कर्मबाहुल्यैः ॥
आर्यो देशः कुल-रूप-संपदा - ऽऽयुश्च दीर्घमारोग्यम् । यतिसंसर्गः श्रद्धा धर्मश्रवणं च मतितैक्ष्ण्यम् ॥ [ एतानि दुर्लभानि प्राप्तवतोऽपि दृढम्मोहनीयस्य । कुपथाकुलेऽर्हदुक्तोऽतिदुर्लभो जगति सन्मार्गः ॥ [
]
यदि वा यो अयं पुरुषः सर्वा दिशा अनुदिशश्च अनुसञ्चरति तथा अनेकरूपा योनी: सन्धावति विरूपरूपांश्च स्पर्शान् प्रतिसंवेदयति सः अविज्ञातकर्मा अविज्ञातं=अविदितं कर्म = क्रिया व्यापारो मनो- वाक्- कायलक्षणः अकार्षमहं करोमि करिष्यामीति एवंरूपो जीवोपमर्दात्मकत्वेन बन्धहेतुः सावद्यो येन सो अयं अविज्ञातकर्मा । अविज्ञातकर्मत्वेन च तत्र तत्र कर्मणि जीवोपमर्दादिके प्रवर्तते येन येन अस्य अष्टविधकर्मबन्धो भवति, तदुदयात् च अनेकरूपयोन्यनुसन्धानं विरूपरूपस्पर्शानुभवश्च भवतीति ॥६॥
यद्येवं ततः किम् ? इत्यत आह
[सू० ]
तत्थ खलु भगवता परिण्णा पवेदिता ।
तत्थेत्यादि । तत्र कर्मणि व्यापार अकार्षमहं करोमि करिष्यामि इत्यादि आत्मपरिणतिस्वभावतया मनो- वाक्- कायव्यापाररूपे, भगवता वीरवर्धमानस्वामिना, परिज्ञानं=परिज्ञा, सा प्रकर्षेण प्रशस्ता आदौ वा वेदिता - प्रवेदिता । एतच्च सुधर्मस्वामी जम्बूस्वामिनाम्ने कथयति । सा च द्विधा - ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञा च । तत्र ज्ञपरिज्ञया 'सावद्यव्यापारेण बन्धो भवति' इत्येवं भगवता परिज्ञा प्रवेदिता प्रत्याख्यानपरिज्ञया च ‘सावद्ययोगा बन्धहेतवः प्रत्याख्येयां एवंरूपा च' इति ।
]
४६
टि० १. ०षाय पु० ख ॥ २. प्राणव० क गपुस्तके ऋते ॥ ३. ०सञ्छन्नः कप्रत्या विना ॥ ४. ०रबहुत्वा० ख ॥ ५. ० बाहल्यैः घ ॥ ६. ०ति तन्मा० ख ॥ ७ प्रतिवे० ख ॥। ८. ०त्यात्म० गङ ॥ ९. जम्बूनाम्ने कपुस्तकं विना ॥ १०. ०य इत्येवं कप्रतिमृते ॥